________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
521
CLOSING : स्मरहर पुरिमात: स्थानकं त्वत्कृते न,
कृपकृतमपि न स्याद् भाटकानां स तेन । कलय मम कुलायं पार्वतीकान्तपावे, प्रतिदिनमपि गन्तुमद्विधो नैव शक्तः ॥२३॥ कुरु जननि कटाक्षं देहि तत्स्थानमाद्य, यदमलमुनुगत्वा नायसं याति भूयः । सृज सुरधुनिभक्ति निश्चल कान्तिका मे, हरिहरपदपद्माभेदभावोऽस्ति यस्याः ॥२४॥ हरिहरार्चनचित्तचमत्कृतः, सुकृतिकेवलराममहीसुरः। हरिपदासितपातरङ्गिणी,
प्रति समर्पितवानवमालिनीम् ॥२५॥ COLOPHON: इति श्रीज्योतिषराय-केवलरामविरचिता गङ्गास्तुतिः समाप्ता । शुभम्भूयात् । Post-colophon: संवत् १८ (१८८२) शाके १७४७.
2873/10424 (1) गुरुपरम्परातोत्र
OPENING :
॥ श्रीमतेरामानुजाय नमः॥ लक्ष्मीनाथसमारम्भा नाथयामुनिमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥१॥ कमप्याद्य गुरु वन्दे कमलागृहमेधिनम् । प्रवक्ता छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम् ॥२॥ सहधर्मचरि शौरेः सन्मन्त्राज्जगद्धिताम् । अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम् ॥३॥ वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् । यवेत्रशिखरस्यन्दविश्वमेतद् व्यवस्थितम् ॥४॥