________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix)
869
येन श्रमेण रचितोऽच्युचतारुवृत्तं. ग्रन्थो मयैष न हि कोऽप्यपरोऽस्य वेत्ता। त्वामन्तरेण विदुषां रसनासने तु, . सभ्यङ् निवेश्य करुणालय ! पालयस्व ॥२३॥
प्रथ ग्रन्थसमाप्तिसूचकं पद्यं बीजगणितेनोच्यते
यो राशिगुणगुरिणतोमकरसहितो घनं भवति । घनमूलं वर्गीकृतमग्निः उविनिम्न कृतिः सका ॥२४॥
राशिर्वाजिगजा ८७ हतः ससहितो विश्वस्तु १३ संवत्सरो, मा: पक्षस्तिथिवारभप्रभतयो विश्वो १३नराशः समाः। ठाकुर्दासविलासउद्यतपदो ग्रन्थोऽत्रे घस्र शुभे, हीरानंदकृतः सदा विजयतां विद्वज्जनः पूजितः ॥२५॥
मथ ग्रन्थसमाप्तिसूचकं पद्यम्
वाय्वाकाशमुनींदुभिः १७०५ परिमिते शाके तथा कार्तिके, मासे कृष्णदलेन शंकरतिथौ पुष्यायोगे शुभे । ठाकुर्दासविलासनामसहितं ग्रन्थं मुहूर्ततं, हीरानंदबुधोऽत्र पूर्तिमनयत्पञ्चाङ्गशुद्ध दिने ॥२६॥
श्रीमठ्ठाकुर्दासभूभृद्विलासे, हीरानन्दप्रोक्तवृत्तप्रकाशे। अन्थेऽन्वर्थे [न्विते] संहितास्कंधसारः, संपूर्णोऽयं शुद्धिपूर्वोऽधिकार ॥२७॥
COLOPHON:
इतिश्रीदेवज्ञवर्यनरसिंहतनयहीरानंदविरचिते ठाकुर्दासविलासे शुद्धिनिरूपण तिथिवयंशाकाधिकारः १६ समाप्तः ।