________________
Catalogue of Sanskrit & Prakrit Mangscripts, Pt. XXI (Appendix)
815
CLOSING :
___5004/3273 छन्दोदीपिका
श्रीगणेशाय नमः।
सुन्दरमरविन्दश्रुतिवृन्दारक वृन्दवन्द्यसुखकन्दम् । शिरसा मुकुन्दचरणद्वन्द्वं वन्दामहे नित्यम् ॥१॥
वाजपेयजयगोविन्दानुजपुरुषोत्तमस्य चरणो वन्दे । प्राचार्यस्य कविमाण्डनजस्य यशो बहुविततं धरणौ ॥२॥
माधवपण्डितराजं रूद्रणशिष्टं मनीषि बलभद्रम् । मधुसूदनकविपण्डितमुख्यान् प्रणमामि पूर्वभवान् ॥३॥
हरिवंशजं चतुर्भुजपोत्रं बुधरूद्रयस्य नप्तारम् । श्रीमत्पितामहम .......
नौमि ॥४॥
कृत्वा पून्यपितृव्यवेदमणिपत्पद्मप्रणामं ततस्तातश्रीहरिवल्लभस्य चरणो नत्वा तथान्यान् गुरून् । ग्रन्थान् शंमुहलायुधप्रभृतिभिः श्रीवाजिपेय्यादिभिः, सृष्टान् वीक्ष्य वदामि वृत्तरचनामाचार्यसूत्रक्रमात् ।।५।।
श्रीवत्सगोत्रजनिना कुमारमणिना, निजेष्ट तुष्ट्यर्थम् । अनुजस्व वासुदेवस्यानुमते संग्रहोऽग्राहि ॥१॥
नात्र काचन विचारचातुरी नैव कापि रसवस्तु माधुरी। बालबोधकृतये कृतं मया, शोधयन्तु सुधियो दयामयाः ॥२॥
अभ्रेण वेदाङ्गयुतेन युक्त', वर्षे पयोराशिशशाङ्कशक्त । १७६० । जातं तथा भाद्रवलक्षपक्षे मास्य [भास्व] तिथौ पूर्णमिदं
शुभेः ॥३॥
COLOPHON :
इति छन्दोदीपिकायां गद्यप्रकरणं नामाष्टमः प्रकाशः ।