________________
810
Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection)
OPENING:
4910/3254 शब्दबोध
श्रीगणेशाय नमः।
स्वनतसुरगणमुकुटजटितबहुनानोच्चावचमणि किरणः । चित्रकान्तिमदशेषदुरितभयनाशि देवचरणं वन्दे ॥१॥
कमठवीरवरस्यमहीपतेरलवराद्युपलक्षितनीवृताम् । बिनय सिंह महायशसः कृते, क्रियत एष सुशब्दज बोधकृत् ॥२॥
स्वल्पायासादहून्शब्दान् बोधयत्यवलोकनात् । ततो ग्रन्थस्य नामास्य शब्दबोध इतीर्यते ॥३॥
संकेतो योऽनुभूत्युक्तो यश्च भगवत्पाणिनेः । प्रयोगसिद्धावनयोयं. ऋज्वर्थः संगृहयते ॥४॥
CLOSING :
राज्ञां ख्यातिमतां हि कच्छपतयाश्रीयंत्र संराजते, श्रीमानालवरो द्विषां स विजयी शार्दूलविक्रीडितम् । तस्य श्रीविनयेशभूपतिलकस्याज्ञावशादुद्ध तः, सारो व्याकरणस्य तेन भगवान्श्रीशङ्करः प्रीयताम् ।।१।।
COLOPHON :
इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीगौरीशंकरशिष्यश्रीविरजानन्दकृत शब्दबोधनामव्याकरणसंक्षेपसंग्रहः ।।
4911/3049 संस्कृतमञ्जरी
OPENING :
श्रीगणेशाय नमः
अथ संस्कृतमञ्जरी लिख्यते ।
प्रानन्दमानन्दकरं प्रसन्न, ज्ञानस्वरूपं निजभावयुक्तम् । योगीन्द्रमीशं भवरोगवा, श्रीमद् गुरु नित्यमहं नमामि ।।१।।