SearchBrowseAboutContactDonate
Page Preview
Page 929
Loading...
Download File
Download File
Page Text
________________ 808 Rajasthan Oriental Research Institate, Jedhpur.IAlwar-Collection) ब्रह्माण्डं यो व्यतरदखिलं श्रोत्रियेम्यो विभज्य, स्थायीभावादिव य........"तो यद्यशोगण्डमैच्छत् । हैमं शैलं सुरविटपिनं कामधेनु च दत्वा, तत्स्वामित्वादिव शतमखं प्रोचूरन्ये प्रतीष्ठम् ।।२४|| यस्य द्वारोपान्ते भूपा निजपदविरहगलितगुरुगर्वास्तिष्ठन्तं स्वं राज्यं लब्ध्वा यचितविरचितपरिचितहर्षाः। जायन्ते किंवान्यद्येन क्वचन वचनमथ न वितथमुक्त, शत्रूणामप्यन्तः कालं मधुरमकटु बहु विनियुक्तम् ॥२५॥ (गोमूत्रिकाबन्धोऽयम्)। देवनाथो लसत्कीर्त्या स्तृणाति जगतां त्रयम् । अवभृयोच्छवसन्मूर्त्या प्रीणाति जगतामयम् ॥२६॥ पुत्रा यदीया षडमी पवित्रचरित्रचित्रीयितविश्वभागाः । सौभाग्यभाग्योपचयरनूनाः सत्कीतिमूर्तिस्थितिनीतिभाजः ।।२७॥ शिवनाथो रघुनाथो रघुरिव वंशोन्नतेः कर्ता । सोम इवातिद्युतिमान् ख्यातः श्रीसोमनाथश्च ॥२८॥ श्रीवारनाथोपि रणे प्रवीरो, धन्यो वदान्यः सुकृती कृती वा । श्रीवादिनाथश्च तथादिनाथो, वृत्ताद्यनाथस्मृतिचारुचित्तौ ॥२९॥ स देवनाथः स्फुटमेव यस्य, यश्चाप्यमी नन्दनकल्पवृक्षाः । श्रीराघवाद्या: मणिमण्डिताङ्गाः, शाखाभृतोभीप्सितमृत्सृजन्ति।।३०।। भ्रातुः कनिष्ठस्य पदेऽभिषिक्तो, यद् गोपिनाथोपि परोपशान्त्यै । ततोपि व्यजितधीर्मघोनः, सख्यं न नाम्ना भुवि कर्मणापि ॥३१॥ पुत्रपौत्रीणभावेपि योभ्यमित्रीणतां रणे । दधद् विद्यासु पारीणोप्यमूदध्ययनप्रियः ॥३२॥ कलापके व्याकरणे मभीरे संदेहसंदोहमपोहयिष्यन् । निन्बधमेतं बहुयुक्त्युपेतं सोऽचीकरत् कर्मधरेण तेन ॥३३॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy