________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix)
783
4522/4591 शिवहरिविलासः
OPENING :
श्रीगणेशाय नमः।
देवीं वागीश्वरी वन्दे मुक्ताहारोज्वलप्रभाम् । स्फाटकीमलयायुक्तां भक्तज्ञानप्रदां शुभाम् ॥१॥
गुणिहृदयचकोरचन्द्रबिम्ब, रसिकरसामृतवर्षिणं प्रबुद्धम् । शिवनृपतिविलासनामधेयं, निजमतिचारुचमत्कृतिं करोमि ॥२॥
श्रीमद्रामदयालुनामपितरं रूपाभिधां मातरम् । वन्दे न्यायकलाकलापकुशलं श्रीब्रह्मदत्तोबुधः । क्षोणीमण्डलमण्डितालवरपूस्तत्रस्थितो मोदते । सारस्वत्यकुलाग्रणी कविकुलालङ्कारचूडामणिः ॥३॥
CLOSING :
कन्याविवाहार्थमहं प्रयाचे, यस्मात्त्वदीयोऽस्मि तवैव लज्जा । तस्मात्सहस्त्रद्वयसंख्यक मे, प्रदेहि वित्तं नरलोकपाल ॥१॥
काव्यं कारय भूपते मम रवात्पौराणिकी सत्कथां, सर्वान् श्रावय श्रावय प्रतिदिनं धयं सदा संशृणु । सत्तामृतवर्षिणी बुधवचः पाथोधिधारां पिब, नोचे हि विदेशसंगमकरीमाज्ञां गिरा मे प्रभो ॥२॥ शुभम् ।।
बाबूजी नामतः ख्यातः शिवराजहरेगुरुः। यस्यमंत्रप्रभावेणा भवच्छत्रुपराजयः ॥३॥