________________
782
Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection)
योमाधवेशनपनिर्मितमाधवाख्ये वासं व्यत्तनगरे बुधमाननीयः। काव्यं हि तेन निजबुद्धिविलास संज्ञ, संदभितं भगवतः परितोषणाय ॥१५७॥
अहमिह यदि दुष्टं प्रावदं संप्रमादात्सकलमपि विदित्वा शोधयध्वं प्रवीणाः। स्खलति किल यथाङिघ्रः कहिचिद्गच्छतो वै, ........वत वदतिविरुद्ध वा बटुःकोपितद्वत् ॥१५८।।
काव्ये गुणोघरचिते मृगयंति दोषं, दुष्टा न जातु गुणमत्र विलोकयन्ति । सन्मंदिरे मणिमये मृगयन्ति रंध्र, कीटा न शिल्परचनामवलोकयन्ति ॥१५९।।
संवत्सरेंकनिगमेभशशाङ्कसंख्ये, शाकेब्धिचंद्रहयभूमियुते च ज्येष्ठे । कुव्हां रवावमृतभूवनसंनिकर्षे, काव्यं हयास्य कृपयापरिपूर्तिमागात् ।।१६०॥
COLOPHON:
इति श्रीमन्नारायणचरणनलिनद्विरेफ श्रीनिवासार्यशिष्य मिश्रशंभुमतिविलासाख्ये महाकाव्ये - चार्वाकादिनिराकरण-विप्रमथुराप्रवेशादिवर्णनं नाम चतुर्थः सर्गः।
Post-Colophonic:
मिती चैत्र कृष्णा ११ रविवासरे । सं० १९१३ का।
मुरलीधरेण यथाप्रतिकृतम् ।