________________
784
Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection),
4535/2246 प्रतन्द्र-चन्द्रिकानाटक
OPENING:
..
श्रीगणेशाय नमः । श्रीसीतापतये नमः । श्रीगुरुपरमात्मने नमः । श्रीसरस्वत्यै नमः । श्रीहरिः । या विद्या कपिलाक्षपादभरतद्वैपायनादीन् पुरा, संश्रित्य न्यवसन्, जहुविरहप्रारब्धदुखं मिथः । तान्निद्धतवियोगदखमवसन यस्मिल्सुभद्रोदये, तं विद्यानिधिमादरेण कलये भद्राय पीताम्बरम् ॥१।।
अपिच-
.
क्षीराम्भोनिधिमध्यसुप्तमधुजिद्विम्बच्छटाबन्धुर- . स्सम्पूर्णामलशीतरश्मिविलसल्लक्ष्म प्रभासोदरः। उन्मीलन्ननु पुण्डरीकविहरन्मत्तालिलीलाधरः पार्वत्या तरलाक्षिमीक्षितरुचिः श्रीकण्ठकण्ठोऽवतु ॥२॥
नान्द्यन्ते सूत्रधार
प्रहो साहसोपन्यासः प्रियवयस्यभावस्य । सकलकलावतां महाराजफतेशाहसभासदामनुरञ्जनाय यत् प्रयतसे । कथय, किंरूपकमाश्रित्यानुरजयिष्यसि सामाजिकान् ?
पारिमारिष–माऽवमंस्थाः आसीत्कश्चिद्विद्वद्वन्दवन्द्यमानचरणो विद्यानिधि. पदलाञ्छनष्पीताम्बरोनाममैथिलः ।
- सकलजनविदित एव सः कवेः रामभद्रस्यात्मजः यस्य दुष्करां प्रतिज्ञामुदाहरन्ति
न सदाचारितादपैमिमार्गात्परजायां जननीसमामवैमि । गुणगणमात्रमुपैमि रामभद्रात्सुकृतागाधमहोदधे रुदेमि ॥ .