________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix)
4517/2216 वाराणसी-दर्पणः
OPENING:
श्रीमद्गुरुचरणकमलेभ्यो नमः ।।
नत्वा श्रीगुरुपादपद्मयुगलं स्मृत्वा परं श्यामलं, काव्यालापमयं मुदे शुभधियां संतोषविस्तारकम् । गर्जद्गूर्जरनागराभरसुधीः सर्वोत्तमं सद्गिरा श्रीमद्राघवसूतुरेष कुरुते वाराणसीदर्पणम् ॥१॥
CLOSING :
एवं यत्कविना प्रकाशितमिदं वाराणसीदर्पणं, तत्सर्व मसिकणिकापतिरयं जानातु विश्वेश्वरः । तस्मै चेत्कृतमस्ति जन्मपरितः किंचिन्नमोभाषणं, तेनवान कृती भविष्यति सदा श्रीवत्सराजः सुधीः ॥२४॥
यं व्यासश्च पराशरश्च सुधियां श्रीरामनामेति यं,.. यं वल्मीकभवोपि कुंभकलभो वारांनिधेः पाचकः । यं सर्वेन्द्रसुरासुरं जगदहो गच्छंश्च विश्वेश्वरो यं गौरीच गणेश्वरश्चतमहं श्रीमदगरूं भावये ॥२५॥
श्रीमद्राघवसूनुसुदरकृते वाराणसीदर्पणे, श्रीमच्छंकरशंकरीपदयुगप्रत्यक्षभावोदधौ । श्रीमद्रुद्रसुसंख्ययाभिगणितः कालेशकण्ठच्छविविश्वेशोत्तमनाम सर्वधरमः काव्ये प्रसादः शिवः ॥२६॥
विश्वेशोत्तममूर्तिदेविमहतादिव्यरहोभिर्मुदा, सत्यं श्रीरसविश्वनाथगणिते चाब्दे गुरो वासरे । भाषाढोत्तममासशुद्धसरसे पक्षे तिथिः पञ्चमी, तस्यां राघवसूनुनाकृतमिदं वाराणसीदर्पणम् ।।