________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XXI (Appendix)
765
4369/2173 गोविन्दलीलामृत
OPENING:
श्रीगोविन्दं व्रजानन्दसंदोहामन्दमन्दिरम् । वन्दे वृन्दावनानन्दं श्रीराधासङ्गनन्दिनम् ॥१॥
योज्ञानमत्तं भुवनं कृपालुरुल्लाधयन्नप्यकरोत्प्रमत्तम् । स्वप्रेमसम्पत्सुधयाभूतं तं, श्रीकृष्णचैतन्यममुप्रपद्ये ॥२॥
श्रीराधाप्राणबन्धोश्चरणकमलयोः केशशेषाद्यगम्या, या साध्या प्रेमसेवा व्रजचरितपरैर्गाढलोल्लकलभ्या । सा स्यात्प्राप्ताय यातां प्रथयितुमधुना मानसीमस्य सेवां, भव्या रागाध्वपान्थैव जमनुचरितं नैत्यिकं तस्य नोमि ॥३॥
कुजं गोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां प्रातः सायं च लीला विहरति सखिभिः सङ्गवे चारयन्गाः । मध्याह्न चाथ नक्तं विलसति विपिने राधयाखापराह्न, गोष्ठं याति प्रदोषे रमयति सुहृदो यः स कृष्णोऽवतान्नः ॥४॥
संसारामयहार्यपि प्रणयजोन्मादान्ध्यमोहादिकदोषच्चवितमप्यनल्परसदं देहादिहृत्पुष्टिदम् । यत्पीतं श्रुतिवाङ मनोभिरनिशं तृष्णाप्रदं चाद्भ तं, तज्जीयादमृतस्पृहाहरमिदं गोविन्दलीलामृतम् ॥५॥
CLOSING :
श्रीरूपशितदिशा लिखिताष्टकाल्या, श्रीराधिकेशकृतकेलिततिर्मयेयम् । सेवास्य योग्यवपुषा निशमन्नचास्या, रागाध्वसाधकजनैर्मनसा विधेया ॥१४॥
पादारविन्दभृङ्गण श्रीरूपरघुनाथयोः। कृष्णदासेन गोविन्दलीलामृतमिदं चितम् ॥१५॥