SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ 710 Rajasthan priental Research Institute, Jodhpur (Alwar-Collection) तस्यासीत्तनयः प्रसिद्धविनयः श्री माधवोमाधवश्रीपादाब्जरतिर्धरासुरनतिर्भूमीपतिः सन्मतिः । यत्सौंदर्यकला विलोक्य विमल: कामोपि कामं मुदा लोकराकलि कल्पनापटुतरः शोभाभरानिर्भरम् ॥४॥ तत्सूनुर्विलसत्प्रतापमहिमा श्रीमत्प्रतापाभिधो, भूयो भूपतिभूषणाखिलगुणग्रामाभिरामोत्सवः । वैरिव्रातविघातको बहुफलावदग्ध्यविद्यानिधिभूविख्यातयशाः क्षितौ विजयते युद्धोद्भटो जिष्णुवत् ॥५॥ सद्गीतागमशुद्धमुग्धरमणीनृत्यद्दपल्लासको, रासोल्लासविलासकृष्णकलितानंदद्धरावंबरः । राज्यश्रीशुभचिंतकः क्षितिसुराभीष्टककल्पद्रुमः, चातुर्योच्चयचुचुचारुचरितो रामाभिरामाकृतिः ॥६॥ श्रीशाण्डिल्यमुनेः कुले किल महाशब्दोपनामाजनि, श्रौतस्मार्तसमस्तकर्म निपुणः श्रीदेवभट्टो महान् । रामाङिघ्रप्रवणस्ततोजनि सुधीः सम्राट् स रत्नाकरः काशीस्थो बहुविश्रुतो निजकुलालङ्कारचूडामणिः ॥७।। कृत्वा येन सतां मतेन विधिवत्सद्वाजपेयं पुनः, चक्रे वैदिकसत्कृतेन कृतिना श्रीपुण्डरीकः ऋतुः । विप्रेभ्यो विधिवत्प्रदाप्य बहुशो ग्रामानिकामार्थदान्, कीतिर्येन च संविधाय विमलां ब्रह्मास्पदं प्रापितो ॥६॥ . स्वस्तिश्रीजयसिंहनामनृपते माङ्कितो भूतले, ग्रन्थः पण्डितसम्मलोऽतिललितः कल्पद्रुमाख्यः कृतः ।। विद्याविश्रुतसत्कुशाग्रमतिना तत्तद्गुणाम्भोधिना, श्रीरत्नाकरशर्मणा जयति स क्षोदक्षमो धीमताम् ॥९॥ तत्सूनुः मुती कृकृती समभवद्भदेवदेवद्रुमो, गङ्गाराम इति प्रथामधिगतः श्रीमान्महायाजकः । येन क्षोणिपतिप्रपूजितपदाम्भोजेन काश्यां मुदा, दत्ता ब्रह्मपुरी विधाय विधिवद्ध मीसुरेभ्योऽचिरात् ॥१०॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy