________________
Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix)
709
बालबोधाय संक्षिप्त स्थितिकालविनिर्णयम् । अतो ग्रन्थांतरेभ्योपि विशेषस्तु विलोक्यताम् ॥२॥
यः श्रीकामवने व्रजे निवसति श्रीदीपचन्द्रात्मजो, मिश्रोनंद इति प्रथामतिगतस्तेनादितिर्थाब्धितः । सारंसारमिहोद्ध तं तिथिकृते स्वीयात्मनां ज्ञप्तये, यत्त्वत्राधिकमूनमुक्तमपि तच्छोध्यं दयार्दैबुधैः ॥३॥
रसगुणधृतिमिति १८३६ विक्रम, संवत्सरबोधनीदिवसे । पूर्तिमगाद्ग्रन्थोयं निर्णयसारेति संक्षिप्तः ॥४॥
इति श्रीमिश्रदीपचन्द्रात्मजमिश्रनंदरामविरचितो निर्णयसार:
Post-Colophonic:
सम्पूर्णः ॥
1128/3635 प्रतापार्क
OPENING :
अङ्गरङ्गपरिनृत्यदनङ्ग, सीतया रहसि कल्पितसङ्गम् । सन्नमामि कृतभार्गवभङ्ग राघवं कलितरङ्ग [तरङ्गम् ॥१॥
स्वस्ति श्रीमनुजातिराजितमहावंशावतंसोखिलक्षोणीपालविशालसद्गुणगणभूमण्डले विश्रुतः । प्रासिन्धुस्फुरदुज्वलोज्ज्वलयशाः सथीभृतो भूभृतां भूषा श्रीजयसिंहभूपतिपतिर्भूमण्डलाखण्डलः ॥२॥
येन श्रीश्रुतिमार्गपङ्कजवनीसूर्येण धर्मादराल्लुप्तप्राय इहाखिलः श्रुतिपथः प्राकाशि धर्मावहः । येनाकारि तुरङ्गमेध उदिताच्छास्त्रोक्तमार्गात्पुनः, भूदेवामरशाखिना सुकृतिना काले कलावप्यहो ॥३॥