SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ 700 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) यस्यान्यानि निबंधनानि बहुशो न्यायेथ वैशेषिके, मीमांसायुगले श्रुतिस्मृतिपथे ब्रह्मार्कसिद्धान्तयोः । नित्यं जैमिनिगौतमात्रिकरणभुग्गार्गादिनामावली, यत्पर्यायतया दिशन्ति विदुषां श्रोत्रं प्रविश्य स्फुटम् ॥७४।। इति कति कति नासन्नीतिरीतिप्रतिष्ठाः, क्षितियतिकुलपूज्याः सर्वशास्त्रप्रवीणाः । यदतिविमलकीतिस्पर्द्ध योल्लङ्घयिष्यन्, जलनिधिमुडपोपिं भ्रान्तिभ्यस्यतीव् (व) ॥७५।। तत्राभूत्सकलकलाकलापकौतुहलावासः । श्रीरामभद्रविबुधः परममहापुरुषलक्ष्मणोपेतः ॥७६॥ तर्के कर्कशतां वहप्रतितरां भाट्ट तथात्युद्भटो वेदान्तेषु पटुस्तथातिनिपुणः सांस्पेपि विख्यातधीः । अष्टव्याकरणीप्रबन्धचतुरः साहित्यरत्नाकरः, क्षोणीमण्डलमण्डनकतिलकः श्रीरामचन्द्रो गुरुः ॥७७॥ प्राचारे चतुराननः श्रुतिवनीसंचारपञ्चाननः, • शाश्वद्यश्च षडाननः खलमिलन्मानादिनिर्भेदने । नानाशास्त्रवचोविचारणचमत्कारे सहस्राननः केषामेष मनोविनोदमतनोन्नो रामभद्रो बुधः ।।७।। विद्यानामवनिर्गुणकविपणिश्चातुर्यचिन्तामणिः, साधूनां सरणिः खलद्विपशृणिः सत्सूक्तिमुक्तास्वनिः । निःश्रेणिशरदिन्दुकान्तयशसां श्रेणिःस्वयं श्रेयसां, विद्याभिः समतां नयत्रिभुवनं यो रामसिंहः स्वयम् ॥७९॥ तत्तनयः प्रथितनयः कृतविनयः सृष्टदुष्कृतापनयः । अभवद्गुणकनिलयः श्रीनरसिंहाभिधो विबुधः ॥५०॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy