________________
Catlogne of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix)
न खलु जगति जातु कर्मजातं । न यदि दमाय करोति कर्मजातम् । इह यदजनि साधुसन्निधीनां पदमयमाजनि साधुसन्निधीनाम् ॥६७
अथ कलिकवलीकृतं कृतज्ञस्मृतिनिगमानुगमात्समुद्धरिष्यत् । अनुदिनमनुतिष्ठताहितार्थी स किल निबद्ध मियेष धर्मतत्त्वम् ॥६८।।
तदुचितचिरचिन्ताचुम्बिचेताः स नेता, जगति मृगयमाणः पण्डिता (न) क्षोददक्षान् । अपरचिद रवृन्दमंदमन्दादरासत् (द्), गुरुमथ सविशेष शेषवंशं ददर्श ॥६९॥
विलसदुभयपक्षभूषितः सद्विजेन्द्रः, उदधिरिव य आस्ते न्यस्तगम्भीरभावः । यदतिविमलदूरापातिसारस्वतौधोच्छलदमलपृषंति क्ष्मातलं प्लावयन्ति ॥७०॥
यस्मिन्नासन्नविरतमखप्रक्रिया काण्डशोण्डादान्तास्तत्त्वं मरि....चयोन्मीलदद्वैततस्वाः । चातुर्योद्योदितहितसंदाचार संचार चोरो-दंचच्चिन्ताचुलुकनचमत्कारिचातुर्यधुर्याः ॥७१
शादीमर्थमयीं विधाय विविधां वेधा विधाय द्विधा, सृष्टि भोगिपती परां तदपरां यस्मिन्ननन्याश्रयाम् । तं सारस्वतभारधारणपटु भूभारसारोद्ध रं, दृष्ट्वा तं वसमावनस्य सदृशो श्रीशेषनाम्नांचिकत् ॥७२।।
दृष्ट्वा शेषविशेषशेषविविधप्रख्याति सख्यस्पृशं, यं श्रीमानधिशिश्रिये स्वयमहो विष्णुः पुराणः पुमान् । यत्प्रोक्ता किल शेषभाषितमहाभाष्या (धि) पोतायिता, व्याख्या काचिदुदंचितोचितनया जागत्ति लोकत्रये ॥७३