SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Part.XXI (Appendix) तस्मादाविरभूत्प्रभूत विभवो गाङ्गेयमेयोजितो, गङ्गादास इति प्रसिद्धमहिमा गङ्गां समाराध्य सः । स्वामाख्यामकृतार्थ यत्कुलमलं चक्रेऽन्य चक्रेश्वरा नक्लेशादजयज्जयैकनिलयः शक्रेप्यवंज्ञाकरः ||२८|| तदनु दनुजवैरिपादपद्मप्रणतिपरः समभून्महेशदासः । इह हरिहरयोरभेदभावं भजनमुपादिशदेष योजनेषु ॥ २६ ॥ यद्वाहोर्बलमाकलय्य बलिनः प्रत्यर्थिपृथ्वीभृतो, भूभृत्कन्द रमन्दिरेषुनिभृता: स्त्रीपुत्र मित्रादिषु । हित्वा स्वेषु च पक्षपातमतुलं गाढानुरागं मृगव्यालव्याघ्रकिरातकेसरिपरिवारे समातन्यते ॥ ३० ॥ अजनि नयनसिंहः पार्थिवोऽस्मादकस्मात्समरभुवि यदीयं सिंहनादं निशम्य । परनरपतिमाद्यत्तुङ्गमातङ्गसङ्घा सपदि विपदि मग्नास्ते दिगन्तान्भजन्ते ॥ ३१ ॥ क्रूराक्षीणविपक्षपक्षदलने दक्षेण यज्ञश्वरादन्यूनेन नयेन ( येन ) सकलं भूमण्डलं शासता । वैषम्यं न विरच्यतेऽत्रभुवने मित्रेष्क (मित्रेषु) वा स्वस्त्रीकेलिपरेषु निर्मितचिरस्वास्थ्येषु नित्यार्थिषु ||३२|| तद्वशे भूवतंसेऽजनि जननयनानन्दचन्द्रो नरेन्द्रो - माहेन्द्रलोकमेषा हसति वसुमती यं पति प्राप्य पुण्यैः । श्रीमानुत्सन्नशत्रुः परिचरितसदा माधवो माधवो यं सम्प्राप्ताः साधवोऽमी गुणमणिविपरिणर्गाधवोधर्मधुर्यः ॥ ३३ ॥ दाने माननिदाने विनये च नये च यशसि सौन्दर्ये । 'पार्थादेरयथार्थामप्रथयद्यः प्रथां ततः पुत्रात् ॥ ३४ ॥ 697 श्रासन्नासन्नभूमी पतित तिनतिमत्कोटिकोटीरकोटिप्रोन्मीलन्नीलरत्नावलिवलित रुचिभ्रान्तभृङ्गाङ्गनाभिः ॥ पीत्वा यत्पादपद्मोदरदरगलितां साधुधूलीमधूलीस्वैरं यत्कीर्तिगीतः सपदि मुखरितास्ते दिगन्ताः समन्तात् ||३५||
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy