________________
Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix)
673
श्रीमाले संबभूव द्विजवरतिलकः कान्तकीर्तिः क्रियावान्सुद्देवो नाम तस्मादजनि गुणनिधिर्दीक्षितो देवशूरः । नाना सच्छास्त्रवेदी श्रुतिविमलमतिर्दानशौण्डप्रकाण्डं, तज्जोऽभूत्तेह्नदेवो द्विजगुणविमलः सत्यसन्धः सुवन्द्यः ॥३॥
तस्माद्गङ्गाधरोऽभूबहुसवनचणश्चिन्तितार्थप्रदायी, सोऽयं प्रासूत पुत्राववनिसुवयालङ कृति एतयोस्तु । ज्यायान्धन्यो वदान्यो नृपतिशतशिरोरत्नवद्भासुरादिर्वेदाध्यायी विनीतो दशमनिरतः कर्मशीलः सुशीलः ॥४॥
तस्यायं योनुजन्मा श्रुतविमलमतिः श्रीमहादेवनामा साग्निः सत्यार्थनामा द्विजवरतिलको वेदवेदान्तवेदी । साचारः सत्यशीलो यमनियमरतो धर्मशास्त्रेष्वधीतिर्दाता धर्मावतारो भुवि विजययुतो यज्ञविद्यावदातः ।।५।।
अन्तर्मेदिनि मेदिनिपतिसमो मान्यो वदान्योऽग्रणीरन्तर्वाणिचरो विचारविदुरो वेदार्थविद्विश्रुतः । तर्के कर्कशगीः स्मृती विमलधीज्ञ ततो याज्ञिको, जातो तेन सुतौ महर्षिरुदयो विद्याविनीतावुभौ ॥६॥
तस्यानुजो धर्मसुधानिधानं, लक्ष्मीधरो लक्षगुणर्वलक्षः । धरामरेज्यः श्रुतवेदवेदी, श्रीवासुदेवाङि घसरोजभृङ्गः ॥७॥
CLOSING:
इति कुलवर्णनम् ॥ अनुक्तं प्रागुक्त द्रष्टव्यम् ।
COLOPHON :
इति दीक्षितमहादेवकृतौ श्रौतपद्धतावतिरात्रः समाप्तः॥