________________
881
Catalogue of Palm-Leaf Mss. in the
ससपादत्रिशत्यस्या श्लोकद्विषट्सहस्रिका १२३२५ । प्रत्यक्षरेण संख्यानादिति निश्चितवानहं ॥ ११॥ यावद्विजयते तीर्थ श्रीमद्वीरजिनेशितुः ।
तावदेषा मरालीव खेलतात् कृतिमानसे ॥ १२ ॥ छ । संवत् १४४५ वर्षे चैत्र वदि ३ सोमे श्रीस्तंभतीर्थे कायस्थज्ञातीय महं जानासुत म० मालाकेन लिखितम् ॥ छ ।
जैनत्वाव्यभिचारिभावसुभगाः सर्वेऽपि यस्मिन् जना
स्तस्मिन् धर्मयशःसमृद्धिविशदे वंशे उकेशाह्वये । श्राद्धोऽभून्नरसिंह इत्यभिधया साधुः प्रसिद्धः सुधी
स्तस्य प्रौढगुणा बभूव नयगादेवीति वित्ता प्रिया ॥ १॥ तयोरभूवंस्तनयास्त्रयोऽमी मुंजाल-माला-महिपालसंज्ञाः । मालाभिधस्तेषु विशेषधर्मी पुण्याय पाणिग्रहणे निषेधात् ॥ २॥ तेषु च महिपालस्याजनि माल्हणदेविनामिका पत्नी । तत्पुत्रा मेधा-नासण-सहदे-सालिगाः सुगुणाः ॥ ३ ॥ श्रीतपागच्छगगनालंकारैकविवस्वताम् । श्रीदेवसुंदरगुरुसूरीणामुपदेशतः ।। ४ ॥ माल्हणदेवी सुविशुद्भवासनाऽऽवश्यकस्य लघुवृत्तिम् । लेखयति स्म शरांबुधिशक्राब्दे १४४५ स्तंभतीर्थपुरे ॥ ५ ॥ सुराद्रिदंडस्थिति सिद्धतारामुक्तावलीकं वियदातपत्रम् । श्रीसंघराजोपरि यावदास्ते सत्पुस्तकं नंदतु तावदेतत् ॥ ६ ॥ छ ।
No. 64 Avaśyakasūtra-Haribhadrivịtti-Tippanaka
आवश्यकसूत्रहारिभद्रीवृत्तिटिप्पनक Folios - 280
Age of MS. - 1297 V. S. Language - Sanskrit
Size - 17.2 x 2.2 inches Authors - Maladhāri Hemacandrasuri
Condition - Good General Remarks- Fols. 115, 116, 117/2, 118, 119, 161, 171, 278, 279
missing. आदि:
॥ ॐ नमो वीतरागाय ॥ जगत्त्रयमतिक्रम्य स्थिता यस्य पदत्रयी। विष्णोरिव तमानम्य श्रीमदायजिनेश्वरम् ॥ १ ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org