________________
Säntinātha Jain Bhandāra, Cambay
[ 89 शेषानपि नमस्कृत्य जिनानजितपूर्वकान् । श्रीमतो वर्द्धमानांतान् मुक्तिशर्मविधायिनः ॥ २ ॥ समुपासितगुरुजनतः समधिगतं किंचिदात्मसंस्मृतये ।
संक्षेपादावश्यकविषयं टिप्पितमहं वच्मि ॥ ३ ॥ इह शिष्टाः कचिदभीष्टे वस्तुनि प्रवर्त्तमाना विघ्नविनायकोपशांतयेऽभीष्टदेवतादिनमस्कारपुरःसरं प्रेक्षावतां प्रवृत्तये संबंधाभिधेयप्रयोजनकथनपूर्वकमेव प्रवर्त्तते । अयमपि भगवान वृत्तिकारः शिष्टसंघाताग्रणीरित्यनेनापि तत्समाचारः परिपालनीयः । नमस्कारोचितश्च देवताविशेषस्त्रिधा-अभीष्टाभिमताऽधिकृतभेदात् । तत्राभियुक्तैः सर्वै रेव मुमुक्षुभिरिज्यते पूज्यत इत्यभीष्टा, सा चासौ देवता च २ महावीरादिस्तीर्थकरविशेषः, सर्वे वा तीर्थकृत इति । एवमन्यत्रापि विशेषणसमासः कार्यः । तथाऽभिमन्यते श्रेयःप्रवृत्तैर्विनशतविघातकत्वेन निश्चीयत इत्यभिमता श्रुतदेवतादिः। तथाऽधिक्रियते प्रस्तुतशास्त्रप्रणेतृत्वेन संबंध्यत इत्यधिकृता गणधरादिः । इत्येवं त्रिविधस्यापि देवताविशेषस्य पूवार्द्धन स्तुतिविधायकं पश्चार्द्धन तु संबंधादिप्रतिपादकं श्लोकमाह । अंतः
प्रत्याख्याननियुक्तिः समाप्ता । तत्समाप्तौ च श्रीमदभयदेवमूरिचरणांबुजचंचरीकश्रीहेमचंद्रसूरिविरचितं आवश्यकवृत्तिप्रदेशव्याख्याटिप्पनकं समाप्तमिति ॥
इति गुरुजनमूलादर्थजातं स्वबुद्ध्या यदवगतमिहात्मस्मृत्युपादानहेतोः । तदुपरचितमेतयत्र किंचित् सदोषं मयि कृतगुरुतोषैस्तत्र शोध्यं मुनीन्द्रैः ।। छमस्थस्य हि मोहः कस्य न भवतीह मोहवशगस्य ? । सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ॥ इति ॥ छ ।।
॥ ग्रं० ४६४० ॥ छ ॥ शिवमस्तु सर्वजगतः ॥ छ । मंगलमस्तु ॥ छ । संवत् १२९७ वैशाखवर्षे मार्ग वदि १ शनिवारे आवश्यकटिप्पनपुस्तिका ठ० आसपालयोग्या।
No. 65 Paksikashtra with vrtti पाक्षिकसूत्र सवृत्तिक Folios - 199
Age of MS.-1309 v.s. Language - Prakrit & Sanskrit
Extent - 2700 Granthas Author of Vštti - Yaśodevasūri
Size - 17.5x2.2 inches Date of Compo. of the Vrtti-1180 v.s. Condition - Good अंत:
एकादशशतैरधिकैरशीत्या विक्रमाद्गतैः ११८० । द्वे सहस्रे शतैरधिके सप्तभिग्रंथमानतः २७०० ॥ ११ ॥ छ ।
१२
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org