SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Säntinātka Jain Bhandara, Cambay [87 अंतः ॥ इति श्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ प्रत्याख्यानाध्ययनं समाप्तम् || अत्र ग्रन्थाग्रं ६९८ तत्समाप्तौ समाप्तेयमावश्यकलघुवृत्तिः ॥ ग्रंथसर्वाग्रं १२३२५ ॥ छ । तीर्थे वीरविभोः सुधर्मगणभृत्सन्तानलब्धोन्नति चारित्रोज्ज्वलचन्द्रगच्छजलधिप्रोल्लासशीतयुतिः । साहित्यागमतर्कलक्षणमहाविद्यापगासागरः ___श्रीचन्द्रप्रभसूरिरद्भुतमतिर्वादीभसिंहोऽभवत् ॥ १ ॥ तत्पट्टलक्ष्मीश्रवणावतंसाः श्रीधर्मघोषप्रभवो बभूवुः । तत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंहदेवः ॥ २ ॥ तत्पट्टोदयशैलशृंगमभजत् तेजस्विचूडामणिः श्रीचक्रेश्वरसूरिरित्यभिधया कोऽप्यत्र भानुर्नवः । संप्राप्ताभ्युदयः सदैव तमसा नो जातु विच्छायितः नैवोच्चंडरुचिः कदाचिदपि न प्राप्तापरागस्ततः ॥ ३ ॥ विललास स्वैरं तत्पट्टप्रासादचंद्रशालायाम् । श्रीमान् शिवप्रभगुरुः संयमकमलाकृतासक्तिः ॥ ४ ॥ श्रीशिवप्रभसूरीणां तेषां शिष्योऽस्मि मन्दधीः । नाम्ना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाग् ॥ ५ ॥ एतां वृत्तिं लघुमविषमां सोऽहमावश्यकीयां तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकार्षम् । तद् यत् किंचिद् रभसवशतो दृब्धमस्यामशुद्धं तत् संशोध्यं मयि कृतकृपैः सूरिभिस्तत्वविद्भिः ॥ ६ ॥ वृत्ति रचयता चैतां सुकृतं यन्मयाऽर्जितम् । भवे भवेऽहं तेन स्यां श्रुताराधनतत्परः ॥ ७ ॥ शतद्वादशकेऽब्दानां गते विक्रमभूभुजः । संवत्सरे षण्णवते १२९६ वृत्तिरेषा विनिर्ममे ॥ ८ ॥ शिष्या नः शस्यचारित्राः सर्वशास्त्राब्धिपारगाः । अस्यां साहायकं चक्रुः श्रीपाप्रभसूरयः ॥ ९ ॥ शिष्योऽस्माकमिमां वृत्तिमखिन्नः शास्त्रतत्त्ववित् । अलिखत् प्रथमादर्श यशस्तिलकपंडितः ॥ १० ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy