SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Sāntinātha Jain Bhandāra, Cambay अभयकुमाराभिख्यस्तृतीयोऽजनि नंदनः । यो दधे मानसं धर्मश्रद्धासंबंधबंधुरम् ॥ ८ ॥ धर्मे सहाया सहदेवसाधोः सौभाग्यदेवीति बभूव जाया । पुत्रौ च खेढाभिध-गोसलाख्यौ प्रभावको श्रीजिनशासनस्य ॥ ९ ॥ किंच। यौ कृत्वा गुणसंघकेलिभवनं श्रीसंघमुच्चैस्तरां श्रीशत्रुजय-रैवतप्रभृतिषु प्रख्याततीर्थेषु च । न्यायोपार्जितमर्थसार्थनिवहं स्वीयं व्ययित्वा भृशं लेभाते सुचिराय संघपतिरित्याख्यां स्फुटां भूतले ॥ १० ॥ आद्यस्य जज्ञे किल षींवदेवी नाम्ना कलत्रं सुविवेकपात्रम् । तथा सुता जेहड-हेमचंद्र-कुमारपालाभिध-पासदेवाः ॥ ११ ॥ अभवद् गोसलसाधोगुणदेवीति वल्लभा । नंदनो हरिचंद्राख्यो देमतीति च पुत्रिका ॥ १२ ॥ जयदेवस्य तु गृहिणी जाल्हणदेवीति संज्ञिता जज्ञे । पुत्रस्तु वीरदेवो देवकुमारश्च हालश्च ॥ १३॥ शुभशीलशीलनपरा अभवंस्तेषामिमाः सधर्मिण्यः । विजयसिरी-देवसिरी-हरसिणिसंज्ञा यथासंख्यम् ॥ १४ ॥ एवं कुटुंबसमुदय उज्ज्वलवृषविहितवासनाप्रचयः । सुगुरोः गुणगणसुगुरोः सुश्राव सुदेशनामेवम् ॥ १५॥ दान-शील-तपो-भावभेदाद्धर्मश्चतुर्विधः । श्रयणीयः सदा भव्यैर्भाव्यभद्रपदप्रदः ॥ १६ ॥ विषयजसुखमिच्छोर्गेहिनः कास्ति शीलं ? करणवशगतस्य स्यात्तपो वाऽपि कीदृक् । अनवरतमदभ्रारम्भिणो भावना किं ? तदिह नियतमेकं दानमेवास्य धर्मः ॥ १७ ॥ ज्ञानाभयोपग्रहदानभेदात्तच्च त्रिधा सर्वविदो वदन्ति । तत्रापि निर्वाणपथैकदीपं सज्ज्ञानदानं प्रवरं वदन्ति ॥ १८॥ कालानुभावान्मतिमांधतश्च तच्चाधुना पुस्तकमन्तरेण । न स्यादतः पुस्तकलेखनं हि श्राद्धस्य युक्तं नितरां विधातुम् ॥ १९ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy