SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Santinatha Jain Bhandara, Cambay 1115 ॥ ॐ नमो जिनागमाय ॥ प्रशस्यधर्मप्रभवः सुपर्वा विशालशाखो वरपत्रशोभः । महीभृतां मौलिषु माननीयः श्रीधर्कटानां प्रथितोऽस्ति वंशः ॥ १॥ साढाकनामा सुविशुद्धमध्यस्त्रासादिदोषैः परिवर्जितश्च । अजायतास्मिन् कुमुदावदातो मुक्तामणिस्विरकान्तिदीप्रः ॥ २॥ समुद्र इव गंभीरः शशाङ्क इव शीतलः । दानवर्षी गज इव साढाकः श्रावकोऽभवत् ॥ ३ ॥ साढाकस्य सुताः पंच जज्ञिरे पाण्डवा इव । येऽर्थिसंघातजातानां कौरवाणां क्षयं ब्यधुः ॥ ४ ॥ सर्वेऽपि धर्मरसिकाः सर्वेऽपि हितभाषिणः । पुमर्थसाधनपराः सर्वे जनहितैषिणः ॥ ५ ॥ आद्य आशाधरस्तेषां प्रमुखो गुणशालिनाम् । महीधरो द्वितीयस्तु गुणग्रामैकमंदिरम् ॥ ६ ॥ वोल्हाकनामा समभूत्तृतीयो हारवद् गुणी । शशांककाशसंकाशयशःपूरितभूतलः ॥ ७॥ यशोवीरश्चतुर्थोऽभूदानेश्वरशिरोमणिः । लोकोत्तरचरित्रोऽभूत् पंचमः पाजस्तथा ॥ ८ ॥ महीधरस्य संजज्ञे संजातोज्ज्वलपुत्रका । गेहिनी देहिनीव श्रीमहाश्रीरिति संज्ञिता ॥ ९ ॥ केल्हणो नाम संजज्ञे तनयः सनयस्तयोः । सद्गुरुचरणद्वन्द्वसमाराधनतत्परः ॥१०॥ अजायत प्रिया तस्य कमलश्रीमहाशया। सत्यापितसुभद्रादिसतीलोका गुणैर्नि जैः ॥ ११ ॥ सागरा इव लावण्यकलिताश्चतुराशयाः । अजायन्त सुधर्मिष्ठाश्चत्वारस्तनयास्तयोः ।। १२ ।। चन्दनादपि मनोज्ञवागभूदाय एष कडकस्ततः पुनः । रासलः सहजधर्मकर्मठो येसलस्तु गुणराशिषेशलः ॥ १३ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy