________________
114]
Catalogue of Palm-Leaf Mssin the
तस्याः समुद्धता चैषा सूत्रमात्रस्य वृत्तिका । एकपाठगता मन्दबुद्धीनां हितकाम्यया ॥ ४ ॥ आत्मसंस्मरणार्थाय तथा मंदधिया मया । अतोऽपराधमेनं मे क्षमन्तु श्रुतशालिनः ॥५॥ आसीच्चन्द्रकुलोद्भूतो विख्यातो जगतीतले । अक्षमाराजितोऽप्युच्चैः यः क्षमाराजितः सदा ॥६॥ धर्मः सुमूर्त्तिमानेव सौम्यमूर्तिः शशांकवत् । वर्जितश्चाशुभैर्भावै रागद्वेषमदादिभिः ॥ ७॥ . सुनिर्मलगुणैर्नित्यं प्रशान्तैः श्रुतशालिभिः । प्रद्युम्न-मानदेवादिसूरिभिः प्रविराजितः ॥ ८॥ विश्रुतस्य महीपीठ बृहद्गच्छस्य मण्डनम् । श्रीमान् विहारुकप्रष्ठः सूरिरुद्योतनाभिधः ॥ ९ ॥ तस्य शिष्याऽऽम्रदेवोऽभूदुपाध्यायः सतां मतः । यत्रैकान्तगुणापूर्णे दोषैलेंभे पदं न तु ॥ १० ॥ देवेन्द्रगणिश्चेमामुद्धतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्यश्रीमन्मुनिचंद्राचार्यवचनेन ॥ ११॥ शोधयतु बृहदनुग्रहबुद्धिं मयि संविधाय विज्ञजनः । तत्र च मिथ्यादुष्कृतमस्तु कृतमसंगतं यदिह ।। १२ ॥ अणहिलपाटकनगरे दोहटिश्रेष्ठिसत्कवसतौ च । संतिष्ठता कृतेयं नवकरहरवत्सरे ११२९ चैव ॥ १३ ॥ पट्टिकातोऽलिखच्चेमां सर्वदेवाभिधो गणिः । आत्मकर्मक्षयायाथ परोपकृतिहेतवे ॥१४॥ दोहट्टिश्रेप्रिना चास्या लेखिता प्रथमा प्रतिः । जिनवाक्यानुरक्तेन भक्तेन गुणवजने ॥ १५ ॥ अनुष्टुभां सहस्राणि गणितक्रिययाऽभवत् । द्वादश ग्रन्थमानं तु वृत्तरस्या विनिश्चितम् ॥ छ॥ . अङ्कतोऽपि १४००० ॥ छ । सं. १३०८ वर्षे ज्येष्ठ वदि ७ बुधे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org