________________
Santinātha Jain Bhandāra, Cambay
[ 113 आदि:
॥ॐ नमो जिनशासनाय ॥ प्रणम्य विघ्नसंघातघातिनस्तीर्थनायकान् ।। सिद्धांश्च सर्वसाधूंश्च स्तुत्वा च श्रुतदेवताम् ॥ . आत्मस्मृतये वक्ष्ये जडमतिसंक्षेपरुचिहितार्थं च । एकैकार्थनिबद्धां वृत्तिं सूत्रस्य मुखबोधाम् ॥ बह्वाद् वृद्धकृताद्गंभीराद्विवरणात् समुद्धृत्य । अध्ययनानामुत्तरपूर्वाणामेकपाठगताम् ।। अन्तराणि पाठांतराणि सूत्रे च वृद्धटीकातः । ..
बोद्धव्यानि यतोऽयं प्रारंभो गमनिकामात्रम् ॥ .. तानि च षट्त्रिंशद्भवन्ति । तत्र विनयमूलत्वाद्धर्मस्य प्रथमं विनयाध्ययनम् । तस्य चेदमादिसूत्रम् ॥ छ । अंत:नियुक्तिकार एतन्माहात्म्याद्याह ।
जे किर भवसिद्धीया परित्तसंसारिया य जे भव्वा । ते किर पढंति एए छत्तीसं उत्तरज्झाए ॥ तम्हा जिणपन्नत्ते अणंतगमपज्जवेहिं संजुत्ते ।
अज्झाए जहजोगं गुरुप्पसाया अहिजिज्जा ॥ योग उपधानादिव्यापारस्तदनतिक्रमेण यथायोगमित्युत्तराध्ययनटीकायां सुखबोधायां षट्त्रिंशमध्ययनं समाप्तम् ॥ छ ।
अस्ति विस्तारवानुर्ध्या गुरुशाखासमन्वितः । आसेव्यो भव्यसार्थानां श्रीकोटिकगणद्रुमः ॥ १ ॥ तेदुत्थवैरशाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव श्रीचंद्रकुलसन्ततिः ॥ २॥ तस्याश्चोत्पद्यमानच्छदनिचयसकाचवर्णान्वयोत्थ
श्रीथारापद्रगच्छप्रसवभरलसद्धर्मकिंजल्कपानात् । श्रीशान्त्याचार्यभृङ्गः प्रवरमधुसमामुत्तराध्यायवृत्ति
विद्वल्लोकस्य दत्तप्रमुदमुदगिरद् यां गभीरार्थसाराम् ॥ ३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org