________________
116.]
Catalogue of Palm-Leaf Mss. in the गाङ्गकस्तदनु गाङ्गवारिणा सन्निभः शुचितया विचक्षणः । देवपूजनरतो निरंतरं वासनारसनिवासमानसः ॥ १४ ॥ वल्लभास्तदनु जज्ञिरे क्रमात् शीलभूषणविभूषिताङ्गकाः । भर्तृपादपद्मकदृष्टयो मूर्तिभाज इव संगताः श्रियः ॥ १५॥ पल्योऽभूवन् कुलोत्पन्नाः निःसपत्नाः प्रियंवदाः । पद्मश्रीश्चेति राज्यश्री लक्ष्मीः श्रीरिति संज्ञिताः ॥ १६ ॥ पद्मश्रियास्त्रयः पुत्राः संजाताः शुद्धबुद्धयः । प्रवाहा इव गङ्गाया जगतीपावनक्षमाः ॥ १७॥ प्रथमो मोहनस्तेषां जनमानसमोहनः । द्वितीयो विजयपालो बालोऽपि हि महामतिः ॥ १८ । तृतीयो लिंवदेवाख्यो मातुरत्यन्तवल्लभः । सहकारसमाकारो निवासः संपदामिव ॥ १९ ॥ आल्हका च सुता जाता बाल्यादपि महासती। तपःकर्मणि सर्वस्मिन् निरता विरता भवात् ॥ २० ॥ द्वितीया महणू नाम संजाता तनया तया । राज्यश्रिया सुता जाता बउल्लू नामविश्रुता ॥२१॥ श्रिया च तनया जाता गोसली नाम रूपभाक् । प्रवर्द्धमाना चन्द्रस्य कलेव विमलाकृतिः ॥ २२ ॥
तथा
यशोवीरस्य सन्ताने सुतो नरपतिस्तथा । शिरपालश्च संजातः शान्तिगस्तत्सुतोऽभवत् ॥ २३ ॥ पाजडस्य प्रिया जज्ञे जयश्री म विश्रुता । तया सुतद्वयं जातं छाडा-आसलनामकम् ॥ २४ ॥ छाडाकस्य प्रिया जज्ञे लीलीरिति विशालवाक् । आसलस्य तथा जाता जाया आसमतिः शुभा ॥ २५ ॥
.
.
.
..
..
.
.
..
..
.
.
..
.
.
.
..
.
.
......... ॥ २६॥
..........
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org