________________
110]
Catalogue of Palm-Leaf Mss.- in the समस्तवस्तुविस्तारे व्यासर्पत्तैलवजले । जीयाच्छ्रीशासनं जैनं धीदीपोद्दीप्तिवर्धनम् ॥ २ ॥ यत्प्रभावादवाप्यन्ते पदार्थाः कल्पनां विना । सा देवी संविदे नः स्तादस्तकल्पलतोपमा ॥३॥ व्याख्याकृतामखिलशास्त्रविशारदानां, सूच्यप्रवेधकधियां शिवमस्तु तेषाम् । यैरत्र गाढतरगूढविचित्रसूत्रग्रन्थिविभिद्य विहितोऽद्य ममापि गम्यः ॥ ४ ॥ अध्ययनानामेषां यदपि कृताश्चूर्णि-वृत्तयः कृतिभिः ।
तदपि प्रवचनभक्तिस्त्वरयति मामत्र वृत्तिविधौ ॥ ५॥ इह खलु सकलकल्याणनिबन्धनं जिनागममवाप्य विवेकिनैवं विवेचनीयम् । यदुत महार्थोऽयं मनोरथानामप्यपथभूतो भूरिजन्मान्तरोपचितपुण्यपरिपाकतो महानिधिरिख मयाऽधिगतः। अंत:
॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां शिष्यहितायां जीवाजीवविभक्तिनामकमध्ययनं समाप्तम् ॥...
अस्ति विस्तारवाना गुरुशाखासमन्वितः। . आसेव्यो भव्यसार्थानां श्रीकोटिकगणद्रुमः ॥ १॥ तदुत्थवैरशाखायामभूदायतिशालिनि ।। विशाला प्रतिशाखेव श्रीचन्द्रकुलसन्ततिः ॥ २ ॥ तस्याश्चोत्पद्यमानच्छंदनिचयसहक्काचकर्णान्वयोत्थः
श्रीथारापद्रगच्छप्रसवभरलसद्धर्मकिंजल्कपानात् । श्राशान्त्याचार्य,गो यदिदमुदगिरद् वाङ्मधु श्रोत्रपेयं
तद्भो भव्यास्त्रिदोषप्रशमकरमतो गृह्यतां लिह्यतां च ॥ ३ ॥ श्रीभिल्लमालकुलशेखरशान्त्यमात्यनिपिताणहिलपाटकचैत्यगेहे । भातृव्यसम्पकमहत्तमकारितोरुसौवर्णरम्यकलशान्वयमूर्तिकीत्तौ ॥ ४ ॥ श्रीशांतिसूरिरकरोद् गुणसेणसूरिवाचोत्तराध्ययनशासनवृत्तिमेनाम् . प्रख्यापिता तदनु तद्गुणसर्वदेवसत्सूरिणाऽनणुगुणैकविशिष्यवर्गः ॥६ सिद्धांतस्वाध्यायव्यसनतयाऽन्यासु वृत्तिषु सतीषुः । यद् विरचितेयमपरा तत्सद्भिर्मर्षणीयं मे ॥६॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org