SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ :111 Santinaiha Jain Bhandāra, Cambay iii यस्याभूद् गुरुरागमे गुणनिधिः श्रीसर्वदेवाह्वयः सूरीशोऽभयदेवसूरिरवनिख्यातः प्रमाणेऽपि च । तस्येयं सुगुरुद्वयादधिगतस्वल्पात्मविद्यागुण- : प्रख्याताय चिरं भुवि प्रचरतु श्रीशांतिसूरेः कृतिः ॥ ७ ॥ सट्टकश्रेष्ठिना श्रेष्ठश्रेयोनिःश्रेयसार्थिना। . . लिखितं गुरुभक्त्या स्यात् (स्तात्) प्रथमं प्रतिपुस्तकम् ॥ ८ ॥ अनाथपिंडदादीनां चेष्टितं चेष्टितैर्निजैः। जैनश्रद्धायतं(युतः) श्राद्धः स तुल्यः केन कथ्यताम् ? ॥ ९॥ छ । श्रीश्रीमालपुरीयधर्कटमहावंशः सुपर्वाकुलः सच्छायः सरलः सुमूलसहितः ख्यातोऽस्ति भूमंडले । यक्षाख्योऽथ बभूव तत्र गुणभृन्मान्यः क्षितीशैरपि ज्यायोवृत्तविभूषितोऽमलतनुर्मुक्ताफलप्रोज्ज्वलः ॥ १॥ विहितविशदचित्तः पात्रविन्यस्तवित्तः, प्रतिदिनशुभचर्यः सूत्सृतः शिष्टचर्यः। निरुपमशमभूमिः सद्यशःश्रीनिधानं, नयविनयवरिष्ठः श्रावकः सत्प्रतिष्ठः ॥२॥ यस्याजितस्त्रिभुवनप्रभुरेक एव, चित्ते निवृत्तभवसंगतिहेतुदोषः । तच्छासनोदितनयानुगता च वृत्तिर्वाक्काययोरुचितभाषणकृत्यपूता ॥ ३ ॥ उदारता दक्षिणता कृतज्ञता, विवेकिता सजनसंगचित्तता । इत्यादयो यत्र गुणा निरागसः, प्रीत्या स्वजातेरिव वासमाययुः ॥ ४ ॥ पत्नी बभूव सा तस्य यशोदेवी विवर्जिता । दूषणैर्गुणरत्नौघखानिर्निधूतकुग्रहा ॥५॥ अथाऽभूवन् सुतास्तस्याश्चत्वारोऽतिविचक्षणाः । देवचन्द्र इति ज्येष्ठः प्रद्युम्नाख्यस्तथाऽपरः ॥ ६ ॥ शान्तेर्गेहमथो शान्तिर्यशोभूमिस्तथाऽऽजडः । प्रधानलोकपालस्य चतस्रो नीतयो यथा ॥ ७ ।। स्वर्गेऽपि ते निर्मलधर्मकर्मनिर्मापकाः कौशलशालिशीलाः । विशिष्टलोकैरभिनंदनीयाः, नरार्थवत् ख्यातिमवापुरुाम् ॥ ८ ॥ अथासौ श्रीयशोदेवी संवेगाक्षिप्तमानसा । एकदा चिन्तयामास संसारं वीक्ष्य दुस्तरम् ॥ ९ ॥ यथा आयुर्वायुविधूतरूतलतिकालोलं वयो विस्फुर द्वियुद्दीप्तिचलं स्मराततरुणीभ्रूभंगुरा श्रीरपि । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy