________________
108
Jaina Literature and Philosophy
[402
श्रीहीरविजयसूरिस्त पविभूषणं प्रशमसदनं । आसीन्नरपतिराशिप्रणतशिरोरत्नमौलिकृतचर्चः ॥ ४ ॥ तस्यापि शिष्यरत्नं स्वस्तिश्रीविजयसेनसूरिवरः । आसीलब्धमहाब्धिः समरसपानं जगद्विदितः॥५॥ तत्पदृवंशमुक्तामणिरिव तेजस्वितादिगुणयुक्तः । श्रीविजयदेवसूरिः शास्तितमा 'तप'गणं सुगुणः ॥ ६ ॥ यः सौभाग्यगुणेन स्मारयतितमां च शीलगुणयोगात् । जंबूस्वामिनमुच्चै यतात् श्रीविजयदेवगुरुः ॥ ७ ॥ श्रीआनंदविमलगुरुशिष्याः श्रीसहजकुशलविबुधवराः । सिद्धांतहेमनिकथा बभूवुरुद्दामनिवहाः ॥ ८॥ तेषां शिष्या मुख्या वाचकवरसकलचंद्रनामानः । येषां गिरं सुधामिव निपीय भव्याः प्रमोदंते ॥ ९॥ श्रीशांतिचंद्रा वरवाचकेंद्रा
बभूवुख्जप्रतिवीरवक्त्राः । .. शिष्येषु मुख्या बहुषु प्रवीणा
स्तेषां गुरूणां गुणभाजनानां ॥ १० ॥ श्रीमज्जंबुद्वीपप्रज्ञप्तेर्वृत्तिरत्नसवितारः । श्रीमत्साहिअकब्बरभूपतिपर्षत्सुलब्धबहुमानाः ॥ ११ ॥ श्रीमजिनप्रवचनप्रभावनाकृत्यकरणविधिदक्षाः । आसन् विद्यादानः शिष्याणां भूयसां च पूज्यतमाः ॥ १२ ॥ तेषां गुरूणां गुणसागराणां
प्रसादलेशं समवाप्य चक्रे। अभ्यर्थितः शिष्यगणैविनीतै
वृत्तोत्तमं वाचकरत्नचंद्रः ॥ १३ ॥ कृत्वा कृपां मयि बुधैः परिशोधनीयं ___ संशोध्य वीतकलुषं परिवाचनीयं । अन्योपकारविधये वसु लेखनीय
शिष्यादिपाठनपदैः परिशीलनीयं ॥ १४ ॥ युगमुनिरसशशि( १६७४)वर्षे मासे विजयदशमिकादिवसे । वारे विधौ च विदधौ वाचकवररत्नचंद्र इति चरितं ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org