SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 670.] 1.4Malasatras जगति महिमा हेमक्षोणीधरद्वयसो यशः शशिजयकर नाभूत्कस्याद्भ(द्भु)ताय मुनिप्रभोः ॥१३॥ तीये पट्टे सद्गुणगणमणिश्रेणिनिधयः क्षमापीरांभो धी)निधय उचिताचारविधयः । स्वभक्तेच्छापूर्तित्रिदशतरवो बुद्धिगुरवो जयंति श्रीमंतो विजयिविजयाणंदगुरवः ॥ १४ ॥ तेषां 'तपा'गणपयोनिधिशीतभासां विश्वत्रयोजनमनोरमकीर्तिभासां वाग्वैभवाधरितसाधुसुधासवानां राज्ये चिरं विजयिनि व्रतिवासवानां ॥१५॥ इतश्व। शिष्याः श्रीविजयादिदानसुगुरोः सिद्धांतवारानिधेः श्रीकांताः परतीर्थिकव्रजरजःपुंजैकपाथोधराः । पूर्व श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे यैर्वैराग्यरति विर्ताय विरतिं चक्रे ममोपक्रिया ॥ १६ ॥ विनेयास्तेषां च प्रसृमरयशःपूरितादिशः श्रुतं दत्त्वा मादृग्जडजनमहानुग्रहकृतः। महोपाध्यायश्रीमुनिविमलपादाः समभवन् भवोदन्वन्मज्जज्जननिवहबोहित्थसदृशः ॥ १७॥ वैरंगिकाणामुपकारकाणां वचास्वनां कीर्तिमतां कवीनां। अध्यापकानां सुधियां च मध्ये दधुः सदा ये प्रथमत्वमेव ॥१८॥ तेषां शिष्याणुरिमां भावविजयवाचको(3)लिखद् वृत्ति स्वपराधबोधविधये स्वल्पधियामपि सुखावगमां ॥१९॥ निधिवसुरसवसुधा १६८९ मिते(त)वर्षे श्री रोहिणी'महापुर्यो । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत्सिद्धिं ॥ २० ॥ गुणगणसुरतरुसुरगिरिकल्पैस्तस्याग्रजः सती,यश्च । श्रीविजयहर्षकृतिभिर्विदधे साहाय्यमिह सम्यक् । २१॥ अनुसृत्य पूर्ववृत्ति(ती)लिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतींद्रेः प्रकृतिसरलैः ॥२२॥ श्रीशंखेश्वरपार्श्वप्रभुप्रभावात्प्रभूतशुभभावात् । आचंद्राके( क ) नंदतु वृत्तिरसौ मोदयंती ज्ञान ॥२३ ।। TA.S. NI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy