SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 148 Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection) Jain Education International आपदामपहर्तार दातारं सर्वसम्पदाम् ॥ मनोऽभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।। २ ।। केशवं क्लेशनाशनमित्यादि । यन्नाम स्मृत्यादिना तपोयज्ञक्रियादिः सम्पूर्णं भवति, तस्यैव मुहुर्मुहुः स्मरणेन प्रतिवत्से मङ्गलाचरणेन निर्विघ्नतापूर्वकं ग्रन्थपूर्तिरेव स्यात् । तथा च पूर्व वरदं प्रभुक्तोपकार स्बेष्टदैवतं कथं विस्मरामीति हेतो: प्रतिवत्से मङ्गलाचरणं क्रियते ॥ प्रकृतमनुसरामः ॥ श्रीमन्मल्लारि रावाख्यो गोतमाख्या सती परा । लोकेऽस्मिन् प्रथितावास्तां दम्पती बुद्धिसागरी ॥ २ ॥ ( सतीनां पतिव्रतानां मध्ये श्रेष्ठा ) खण्डेरावाह्वयो जातस्तयोस्तनय श्रौरसः ॥ अहल्या विदिता नाम्ना तत्पत्नी! कुलपूजिता ॥ ३ 1 तत्कुलपूजिता तत्कुलेऽतीवश्रेष्ठा सदाचरणशीलत्वेन; देव गो ब्राह्मणाराधनपरायणा महादानापूर्णत्वेन तव वदान्या पूजितेति सङ्गच्छते समाराधयती देवं साम्बं शङ्करमादरात् ॥ नियमैश्व यमैर्भक्तया सदा सब्रतमाश्रिता ॥ ४ ॥ ब्रह्मचर्ये वरिष्ठानां सर्वशास्त्रार्थं सम्विदाम् ॥ विप्राणां हि सभामध्ये स्थिताया (सा) विनयान्विता ॥ ५ ॥ पुराणधर्मशास्त्राणि चेतिहासादि सत्कथाः || शृण्वती सा यथाकालं ज्ञानवृत्ति परां गता ।। ५ ।। विप्राणां इति जप पूजनाद्यन्ते सावकाशे शृण्वती व्यर्थकालक्षयं न कुर्धती नित्यनैमित्तिक कर्म्मणोन्ते हरिकथामात्रैकजीवना इत्यर्थः । यादृशी हि सभारम्या ब्राह्मणानां महात्मनाम् ॥ अहल्या सन्निधावास्ति नंवान्यत्र हि तादृशी । ६ ।। जयसिंहो राजराजोऽभूद्वाजेरावात्मजोऽपरः ॥ यद्वा काले ययोरासीत्सभा सैवेह तादृशी ॥ ७ ॥ विद्याभिस्तेजोभिस्तपसां गुणैः ॥ दुराधर्षाश्र्व वेदवेदाङ्ग- तत्वज्ञा ईदृशा ये तदाश्रयाः ॥ ५ ॥ पृथिव्यां रत्नपूर्णायां सन्ति भूपाः सहस्रशः ॥ कालेऽस्मिन् क्वाऽपि नैवास्ति ब्राह्मणानां सभेदृशी ॥ ९ ॥ दानं विप्रार्चनं नीती: सदाचरणमेव च ॥ अहल्यायाः समं नास्ति नास्ति क्वापि महीतले ।। १० ।। For Private & Personal Use Only www.jainelibrary.org
SR No.018018
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 6
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages242
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy