________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. VI (Appendix)
149
नास्ति नास्तीति द्विरुक्तिः सर्वथैवनास्ति इति प्रतिज्ञा पूर्वकं द्विरिति सिद्धान्तः इति तात्पर्यार्थः । तथा च ग्रन्थारम्भे व्रतवत्से परिभाषादो ग्रन्थोक्तप्रास्ताविकोक्तमेव प्रकृतमनुसरामः ।
तदाख्यया ग्रन्थ रूपा धर्म निर्णय संग्रहा ॥ माविर्भूताऽस्ति देवाज्ञा स्वप्नलब्धा वरा बुधैः ।। ११ ।। प्रहल्या कामधेनुर्वै निर्णयोधपयः श्रवा ।। नानाभिराम वत्सोद्यत् कीतिरूपाऽभ्य लङ्क ता ॥१२॥ देव प्रतिष्ठा वत्साख्य प्रोक्तास्त्वाचारसिद्धये॥ सदाचारस्य वत्सोऽयं प्रोच्यतेऽत्र सतां प्रियः ॥ १३ ।।
losing
तत्रादौ सदाचारस्वरूपमाह ॥ सतामाचारः सदाचारः। सद्भिराचरितं श्रुतिस्मृत्युक्त यत् सतां माचरणं स्यात् स एव सदाचारः ।
दीपदान गोप्रदान दत्त्वा शान्तिभंवेद् ध्र वम् ।। सदाचाराह्वये वत्से समासेन निरूपितम् ॥ ग्रन्थान्तरेषु बहुधा · द्रष्टव्यं सुधिभिः सदा ॥ कलावस्मिन् युगे कर्म कर्तु शक्तिर्न विद्यते ।। तस्मात्स्वल्पेनैव प्रदर्शितः इति ॥
'pening
31/24819 रामनिबन्ध [क्षेमरामप्रणीत
॥ श्री गणेशायनमः ।।
गुरु नत्त्वा च वाग्देवीं विज्ञानं कालनिर्णयम् ।।
क्षेमरामेण रामाख्यो निबन्धोऽयं प्रकाश्यते ॥१॥ पथ तिथिदधा ।। पूर्णा खण्डा च । तत्र स्कान्दे--
प्रतिपत्प्रभृतयः सर्वा उदयादुदयोद्भवा ।।
सम्पूर्णा तिथिराख्याता हरिवासर वजिता ।। हरिवासर एकादशी तत्र वेषान्तरं वक्ष्यते तद्भिन्ना खण्डा। तद्वधमाह पठीनसिः
पक्षद्वयेऽपि तिपयस्तिथि पूर्वा तथोत्तराम् ॥
त्रिभिमुहूतविध्यन्ति सामान्यषा विधिः स्मृतः ।। दक्षः
त्रिमुहूर्ता न कर्तव्या या तिथिक्षयगामिनी ॥
त्रिमुहूर्ताऽपि कर्तव्या या तिथिर्वृद्धिगामिनी।। शिवरहस्ये--
यां प्राप्यास्तमुपेत्यर्कः सा चेत्स्यास्त्रिमुहूर्तगा ।। धर्मकृत्येषु सर्वेषु सम्पूर्णा तां विदुर्बुधाः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org