________________
___146
Catalogue of Sanskrit & Prakrit Manuscsipts, Pt. III-B (Appendix)
6686. पातञ्जलमहाभाष्यं भाष्यप्रदीपयुक्तम्
॥ श्रीगणेशाय नमः॥
OPENING (Ct.)
OPENING (w.)
प्रत्ययः अधिकारेणेति । यदि तु प्रकारान्तरेण संज्ञिस्वरूपनिर्देशादिना संज्ञा क्रियते ततो न स्यादतिप्रसगः । यदा तु गौरवादिप्रसंगपरिहारायाविकारेण क्रियते ततोऽपि प्रसंग इत्यर्थः तत्र यदि सर्वे संज्ञिनः स्वरूपेण निर्दिश्यरन् ततो गौरवं स्यात् । अथ सम्प्रत्यय इति सनः सकारादारभ्य कपः पकारेण प्रत्याहाराश्रयणेन संज्ञा विधी येत । तदानेकस्य पकारस्य संभवात्संदेहः स्यात् ननु प्रतियोगमुपस्थानेपि वाक्य भेदप्रसंगोत् प्रकृत्यादीनां. प्रत्ययसंज्ञा न भविष्यति
॥ श्रीगणेशाय नमः॥ प्रत्ययः अधिकारेणायं प्रत्ययसंज्ञा क्रियते सामप्रकृत्युपपदोपाधीनामपि प्राप्नोति तस्याः प्रतिषेधो वक्तव्य:.......................................................... एतेषां प्रतिषेधो वक्तव्यः ।।
........."प्रत्रापि शपा व्यवधानात् । एकादेशे कृते नास्ति व्यवधानं एकादेश: पूर्व विधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेवेति ।। इतिश्रीभगवत्पतंजलिविर. चिते व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य प्रथमे पादे पंचममान्हिकम् ।
CLOSING
6689. प्रत्याख्यानमण्डनम्
श्रीगणेशाय नमः।
OPENING
प्रत्ययलोपे प्रत्ययलक्षणम् । नन्वत्रादिमं प्रत्ययग्रहणं किं ? असति तस्मिन्प्रत्ययलोप इत्यर्थाभावात् क्रियते, पाहोस्विदप्रत्ययस्याऽपि लोप इत्यर्थो माविज्ञायोति । नाद्यः। प्रत्ययलक्षणमित्यनेन प्रत्ययनिमित्तं कार्य उच्यते तच्च लोपोयेसत्यतिदिश्यमानं लोपस्याभावरूपत्त्वात् प्रतियोग्यपेक्षायां प्रत्यासत्या प्रत्ययस्यैव लोपो विज्ञास्यते । यथा क्रियमाणेऽपि प्रत्ययग्रहणे. प्रत्ययस्य लोपेऽन्यनिमित्तं कार्य दधिमध्वित्यादी स्वमो
र्लोपे विवप्रत्ययनिमित्तो ह्रस्वस्येति तुक नातिदिश्यते । किन्तु प्रत्ययस्यलोपस्तन्निमित्तकमेवप्रत्यासत्तेरतिदिश्यते । न द्वितीयः ।.......
एवं भाष्यादिप्तवंग्रथस्वारस्ये दृढदूषकयुक्त रभावे सहा यमवलंब्य कथमेतत् दूषयांचकुरिति त एव प्रव्या इति मात्सर्य मुत्सार्य निपुणांतरं विभावनीयं सुहृद्भिर्विद्भिः।
इति श्रीमत्पाठकमुरारीसूनुपाठक लक्ष्मणाव्रजपाठकरामचंद्रविरचितं प्रत्याहारमंडनं समाप्तम्।
CLOSING
COLOPHON
OPENING
6738. स्वरप्रदीपिका
॥ श्रीरामाय नमः। अथ स्वरप्रकरणं निरूप्यते । अनुदात्तं पदमेकवर्जम् । परिभाषेयं स्वरविधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org