SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ I00 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) OPENING 6349. नीतिशतकं शृङ्गारशतकञ्च ॐ श्री गणेशाय नमः । वाग्वादिन्यै नमः । परमात्मानमानम्य परमानन्दविग्रहं । सज्ज्ञानप्राप्तये नृणां कुर्वे सन्नीतिवर्णनम् ॥११॥ श्रीमत्पुष्करव्यासस्य सुत: श्रीनाथसंज्ञकः । सन्नीतिशतकस्यास्य टीकां कुर्वे यथार्थतः ॥२॥ यामिति अस्यार्थः-प्रथमं प्रस्तावकथा सर्वलोकेषु प्रसिद्धा ततो लोकत एव ज्ञातव्या, इदानीं तस्य राज्ञो वैराग्योत्पत्यादिकारणमाह- अहं यां मदीयां स्त्रियं सततं निरन्तरं चिन्तयामि स्मरामि सा स्त्री मयि विरक्ता उदासीना, उदासीनत्वे कारणमाह, साऽपि अन्यं जनं मदपरं पुरुषमिच्छति । स जनस्तत्कांक्षितो जनः अन्यासक्त: वेश्यासक्तः इत्येवं भतावसरे, अस्मत्कृते मन्निमित्तं च पुन: काचित् अन्या परितुष्यति संतोषं करिष्यति, अपितु कापि नेति, एवमुक्त्वा विरक्तः सन् सर्वान् धिक्करोतीति तदेवाह, प्रथम तां वेश्यां धिक् या मां फलं दर्शयामास, च पुनः तं महामात्रमपि धिक् यो राजपत्नी प्राप्य वेश्यारतोऽभूदिति, च पुनः मदनं कामदेवमपि धिक् यो मदनः कुलवतां मनासि इतस्ततश्चालयतीति । CLOSING __ युवतिषु नारीषु इदं मंडनं शोभाभूषणं स्वाभाविकमेव वर्तते सहजोत्पन्नमेवेति, तन्मंडनं वर्णयति, वक्त्र स्त्रीमुखं चन्द्रविडंबि चंद्रबिम्बविजयि पुनर्नार्या लोचने नेत्र पंकजपरीहासक्षमे कमलपरिहासस्य करणे समर्थे, पुनर्वर्णः कायारंगः स्वर्ण कनकं अपाकरिष्णुः तिरस्कत्ता, पुनः कचानां चयः समूहः केशनिचयः अलिनीजिष्णुभ्रं मरीजैतु. शीलः, श्यामा भ्रमरी यथा भवति तदुपमा केशा इत्यर्थः । वक्त्रचन्द्रविडंबि पंकजपरीहासक्षमे लोचने, वर्णःस्वर्णमपाकरिष्णुरलिनीजिष्णः कचानां चयः । वक्षोजाविभकुम्भविभ्रमहरी गुर्वी नितंबस्थली, पाचो हारि च माईवं युवतिषु स्वाभाविक मंडनम् ॥२४॥ नामृतं न विषं किंचिदेकां मुक्त्वा नितम्बिनीं, संवामृतलता रक्ता विरक्ता विषवल्लरी ॥२५॥ ॐ नमो भगवते वासुदेवाय श्रीकृष्णाय नमः । श्री श्री श्री श्री श्री श्री श्री OPENING 6362. नीतिशतकम् श्रीगणेशाय नमः। त्रिषु देवेषु मरांतं भृगु भुत्सुः परीक्ष्य हरिमेकं । मेने रधिकं महिम्ना सेव्यस्सर्वोत्तमो विष्णः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy