________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
OPENING
CLOSING
5638. सौभाग्यकल्पद्रुमः
श्रीगणेशाय नमः : गुरोः कटाक्षवीक्षाख्यां दीक्षा प्राप्य तु यत्कृपाम् ।
साधकः शिवरूपः स्यात्तामम्बां संश्रये सदा ॥१॥ अथ पूर्वोक्तानुष्ठानयोग्यतासिद्धये दीक्षाविधिनिरूप्यते
शांतो ह्यलुब्धः सदयः सुकृत्यागमतत्ववित् । पूर्वाश्रमी परो वर्णः शूद्रो नैव गुरुर्भवेत् ॥२॥ दृढभक्तियुतः शांतः कृत्योत्साही स्वलुब्धकः । दीर्घसेवायुतः स्वच्छः स्वांतः शिष्यो भवेच्छुचिः ॥३॥ वैशाखे कात्तिके चांत्ये माघे श्रावणके शुभे। मार्गशीर्षे चाश्विने च चत्रे मध्या: प्रकीर्तिताः ॥४॥ पादावेव तु पूज्याः स्युमण्डले शिवरूपिणः । शास्त्रगुज्ञिया सर्व सफलत्वाय कल्पते ॥४॥ अन्यथा विफलं सर्व भस्मनीव यथा हुतं । अयं हि परमो योगः कोलमार्गों महेश्वरि ॥४१॥ प्रसिधार्यव्रतसमः मनोनिग्रहहेतुकः । स्थिरचित्तस्य सुलभः सफलस्तूर्णसिद्धितः॥४२॥ अन्यस्य विफलो दुःखहेतुः स्यात्परमेश्वरि । एवमुपासकधर्मान् ज्ञात्वा उपासीतेति शिवम् ।। श्रीमाधवानन्दनाथकृते सौभाग्यपूर्वके । कल्पद्र मे समभवत् स्कंधो दीक्षाफलानतः। इति श्रीसोभाग्यकल्पद्र मे चतुर्थस्कषः ।। शुभं भवतु । 5639. सौभाग्यरत्नाब्धिः
श्रीगणेशाय नमः ।। मथ दीक्षाविधिः, तत्रादौ तदङ्गभूतमण्डपादिरचनाएं प्राच्यादिक्परिज्ञानस्यावश्यकत्वात् तत्परिज्ञानप्रकारः प्रदश्यते । तत्र मेघाद्यनावृतसूर्ये निर्मलनभोमण्डले दिवसे वृक्षप्रासावाद्यनावृते भूप्रदेशे जलयंत्रादिभिर्दपणोदरवस्तुसमीकृते भूतले क्वचिद विन्दुकृत्वा तदवष्टंभतः प्रतिदिशं द्वादशाङ्गुलमानेन वृत्तं निष्पाद्य तत्र षडङ्गुलमानपरिणाहमूलमुत्तरोत्तरपरिणाहापचयेन सूचीमात्रकृताग्रपरिणाहं ऋज्वाकृति शकुद्वादशाङ्गुलोछायसहितं वृत्ताकारं शिल्पिवरेण निर्मितं......। सक्षणं तु भविष्यपुराणे
पलद्वयं तु प्रस्तुतं द्विगुणं कुडवं मतं, चतुभिः कुडवैः प्रस्थ: प्रस्थ चत्वारि प्राटकः ।
COLOPHON
OPENING
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org