________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
विद्युत्कोटिनिभांशुकां प्रविलसन्माणिक्यमालाधरी,
___कस्तूरीधनसारचितमहादिव्याङ्गरागद्युतिम् । श्रीगौरीपरमादिशक्तिसहितामिन्द्रादिसंसेविता,
सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ।।३।। श्रीमत्पुष्करतीर्थराजनिकटे भ; स्वयं निर्मिते,
रम्भास्वस्थकपित्थनूतप्रमुखैदिव्य मैमण्डिते । श्रीमद्रत्नगिरीन्द्रराजिशिखरे वैमानिकः सेवितां,
'वत्रीं सचराचरस्य जननी वन्दे जगन्मोहिनीम् ।।४।। ब्रह्माणी कमलासनस्य दयिता ब्रह्माग्निसंवद्धिनी,
ब्रह्म काक्षररूपिणी भगवती भक्तप्रियां भावुकाम् । सारासारविभेदिनी समरसां सायुज्यसिद्धिप्रदां,
सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ॥५॥ प्रादिक्षान्तसमस्तवर्णसहितामानन्दसन्दोहिनी,
वेदान्तार्थसुबोधिनी विषयसन्मोहान्धकारापहाम् । भ्र भङ्गाच्च विनिर्मित ण्डशतका भूयः परां देवतां,
सावित्रीं सचराचरस्य जननी वन्दे जगन्मोहिनीम् ॥६॥ प्राधारादिसमस्तचक्रनिचये मध्या हि संसेविता
मानन्दादिचतुर्भुजां त्रिनयनामालस्यनिद्रापहाम् । ब्रह्मण्यामभयप्रा (प्रदा) द्विजवरैर्मध्याहनकालेऽचिता,
सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ।।७।। वीणापुस्तकमालिकामृतघटैदिम (दीप्त)हस्ताम्बुजा,
विश्वशादिसमस्तदेवपटलः संस्तुत्यमानां मुदा । गौराङ्गी गरुडासनप्रियकरीमब्जासनस्था शुभां,
सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ।।८।। सावित्र्यष्टकमेतदर्पितमलं तद्दिव्यपादाम्बुजे,
सावित्रींमनुराजकेन ग्रथितं दिक्पालवर्णाङ्कितम् । श्रीमत्कुम्भजपादपद्मकृपया प्राप्तं परं मुक्तिदं, जप्त्वाक्ये (कोs) पि समस्तक्लेशनिचर्यमुक्तो भवेन्नान्यथा ॥६॥
इतीदं यतिवर्येण हरिदेवेन कीत्तितम् । श्रीमत्कुम्भजपादाब्जकृपया क्षन्तुमहा (हंत) ॥
इति श्रीसावित्री (व्य)कम् ॥
OPENING
• हनुमत्सहस्रनामस्तोत्रम ॥ श्रीगणेशाय नमः॥
ऋषय ऊचुः
ऋषे लोहगिरि प्राप्तः सीताविरहकातरः। भगवान् किंविधो रामस्तत्सर्वं ब्र हि सत्वरम् ।।१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org