________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-A (Appendix)
महोपाध्यायशिष्यश्रीमुनिमेरूपाध्यायैः। तथा सं० १२८६ वर्षे स्तूप स्थापित रोहड सा० हरिपालकारितपादुकानां सं० १५४६ वर्षे तुरुष्कविध्वंसे कृते सति तदनु देवराजपुरदुर्गे पातसाहिलंगहुसेरणसाहिराज्ये स्तूपोद्धारं पादुकोद्धारं च कारयित्वा श्रीसंघेन वैशाषशुद्धाक्षततृतीयायां वासक्षेपपूर्वकं श्रीमुनिमेरूपाध्यायः स्तूपयात्रा कृता। गच्छाधिनायकश्रीजिनसमुद्रसूरीणामादेशेनोन्मुद्रय चिरन्तनशास्त्रकोशो वाचितः। ज्ञानस्य भक्ति खलु कुर्वते ये,
ते सौख्यसन्तानभुजो भवन्ति । तदस्य कोशस्य पुरातनस्य,
संस्कारकृत्ये प्रयता भवन्तु ॥१॥ श्रद्धा इमे पुण्यसुधैकपात्र,
गुर्वाज्ञया यैरिह कोशयत्नः । विधीयते सद्विधि सावधान
रत्नं हि यत्नात् खलु रक्षणीयम् ॥२॥ अयं च कोशो जिनशासनं च,
श्रीभूरयो गच्छतपोधनाश्च । श्राद्धश्च (स्व)पुण्योद्यमबद्धरागाः,
.सर्वेऽप्यमी सन्मतयो जयन्ति ॥३॥ श्रीखरतरगणसुरतरुशाखी सततं सुविस्तृतो जयति ।
यं संश्रिताः सुमनसः प्रमदाद् विबुधैरुपास्यन्ते ।।४।। पूज्यश्रीजिनभद्रसूरिगुरवोऽजायन्त विश्वश्रुता.
स्तत्पट्ट जिनचन्द्रसूरिगुरवोऽभूवन् भुवां वल्लभाः। तेषां सम्प्रति पट्टपङ्कजवने श्रीराजहंसोपमाः,
श्रीमज्जैनसमुद्रसूरय इमे कुर्वन्तु राज्यं सदा ।।५।। ___ मंगलं महाश्रीः संवत् १५६८ वर्षे भाद्रपद शुक्ल ४ दिने सा० हरिपाललेखितताडमयं श्रीकल्पपुस्तकं वाचितं तदनु श्रीषरतरगच्छेशश्रीजिनहंससूरिराजानामादेशेन श्रीदेवराजपुरीयकोशमुन्मुद्रय चिरन्तनशास्त्राणि वाचितानि संभालितं च वा. जिनरत्नगणिभिः पं० क्षेमवि (जयगणि ?) पं० फलप्रमोदक्षुल्लकप्रमुखसाधुसहितमहोद्यम कृत्वा श्रीसंघसांनिध्यात् । श्रेयोऽस्तु सर्वदा ॥श्रीः॥छ।।
3429. वटपद्रीयविज्ञप्तिस्फुटपत्रम् दचिराय युगादिसद्धर्मकर्ममार्गोपलंभसमयसमसमयभैरवभवजलधितितीर्षा पृष्ठलग्नसकलसकलविपुलविपुला विवेकिजननिकरकरावलंबनायातिनियमनप्रवरांवर/प, या| त्रामिव विश्वमिलितशरलकुंतलमंडलीमंशस्थलस्थायिनीमनिशमादधानमादिजिनं सावधानमानम्य श्रद्धालुश्राद्धराबाल्यादपि पाल्यमानास्सर्वास्सर्वात्मता (ना) सद्भाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org