SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur तपोभिर्दुस्तपैः प्रापुर्ये तपा इति विश्रुतम् । विरुदं बाण ५ नागेन्द्र ८ द्वि २ चन्द्रा १ङ्कित १८८५ वत्सरे ॥४॥ सतः प्रभृति गच्छोऽयं तपागच्छ इति क्षिती। विख्यातोऽभूज्जजा (गदा) नन्दकन्दकन्दलनकभूः॥५॥ तत्परंपरयाश्रीमदानन्दविमलाह्वयाः । सूरीन्द्राः समजायन्त जगदानन्ददायिनः ॥६॥ मिथ्यामततमःस्तोमसमाक्रान्तमिदं जगत्। पतत् श्वम्र समुद्दध्र यः क्रियोद्धारपूर्वकम् ।।७।। तत्पट्टकुम्भिकुम्भस्थलकसिन्दूरपूरसंकाशाः ।। श्रीविजयदानसूरीश्वरा बभूवुर्जगद्विदिताः ॥८॥ तेषां पट्ट' सम्प्रति विजयन्ति हीरविजयसूरीशाः । यो (यः) श्वेताम्बरयतिनां सर्वेषामाधिपत्यभृतः ।।६।। कलिकालेऽपि प्रकटीकृततीर्थङ्करसमानमहिमानः । गीयन्ते ये सकलरद्भुतमाहात्म्यसन्दर्शनतः ॥१०॥ तेषां विजयिनि राज्ये राजन्ते सकलवाचकोत्तंसाः । श्रीधर्मसागराहा निखिलागमकनक[निकषपट्टाः ॥११॥ कुमतिमतङ्गजकुम्भस्थलपाटनपाटवेन सिंहसमाः । विवादादपि सततं लब्धजयवादाः॥१२॥ श्रीकल्पसूत्रगतसंशयतामसाली. नाशे नवीनतरणेः किरणावलिकल्पा । एषा विशेषरचना रुचिरा वितेने, ते रत्नकल्पकिरणावलिनामवृत्तिः ।।१३॥ यावत्तिष्ठति मेरुयविज्जिनशासनं जगन्मध्ये । तावत्तिष्ठतु शिष्टैनिरन्तरं वाच्यमानाऽसौ ॥१४॥ श्रीमदहम्मदावादवास्तव्यः संघनायकः । सहजपालनामाऽऽसीत् पुण्यप्राग्भारभासुरः ॥१५॥ सतीजनशिरोरत्नं मंगाईति तदंगजा। कुंअरजीतिसन्नामा तयोः पुत्रोऽभवत्पुनः ।।१६।। पाबाल्यादपि पुण्यात्मा धर्मकर्मपरायणः । सप्तक्षत्र्यां वपन् वित्तं स चक्रे सफलं जनुः ।।१७।। तथाहि । श्रीविजयदानसूरीणां समीपे स महोत्सवम् । प्रतिष्ठा कारयित्वाऽसौ प्रतिष्ठा प्राप भूयसीम् ।।१८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy