________________
18
OPENING on f. 2 a
CLOSING :
Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-(A) (Appendix)
COLOPHON : Post-Colophonic
Jain Education International
अश्वमेधे च
751. दुर्जनमुखमद्दनम्
..ताः ।
भक्त्या संपूजयन्न ेनं गति चैषां ददाति सः ।।१२ ॥
******
श्रन्याश्रित्योच्छ्रयो नास्ति मुख्यमाश्रयमाश्रयेत् । रुद्र समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ॥ १३ ॥ ब्रह्मा मामाश्रितो नित्यं नाहं किञ्चिदुपाश्रयः । ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्ययम् । इदं रहस्यं कौन्तेय प्रोक्तवानहमव्ययम् ॥ १४ ॥ विभूतयो हरेरेता जयतः (न्ते ) सृष्टिहेतव: । रुद्रकालान्तकाद्याश्च समस्ताश्चैव जन्तवः ॥ चतुर्द्धा प्रलयायैता जनार्द्दनविभूतयः । प्रशास्तारं सर्वेषां विष्णुर्ब्रह्ममयो महान् ।।
इति सर्वेषां प्रशास्तृत्वेन उत्पादकत्वेन संहारकत्वेन च न ब्रह्मरुद्रादीनां भगवत्समत्वं स्वरूपैक्यं वा संभवतीति शास्त्रसिद्धम् । मोक्षधर्मे च
तं ब्रह्मा कालरुद्राश्च सेन्द्रा देवा महर्षिभिः । श्रर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥
X
X
X
एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
न भजन्त्यवजानन्ति स्थानाद् भ्रष्टाः पतन्त्यधः ॥
श्रात्मन: देहविशिष्टजीवस्य प्रभवदुत्पत्तिर्यस्मात् स आत्मप्रभवस्तं न भजन्ति तस्माद (त्) स्थानात् भ्रष्टाः अधः पतन्ति ।
ऋषयो ज्ञाननिष्ठा ये तत्वयाथार्थवेदिनः । वचांसि तेषामादाय रचितो वाक्यसंग्रहः ॥ श्री जनकजादासेन त्रिमल्लार्य प्रसादतः । तरावेकान्तभक्तानां स्वस्मिन् प्रीतिविवृद्धये ॥
इति श्रीप्रयोध्या त्रिमल्लकाचार्याणां चरमावधिसेवकेन श्रीजनकजादासेन दुर्जनमुखमर्दनाख्यो रचितो वाक्यसंग्रहः ।
त एव दुर्जना लोके ये वै विष्णुविदूषकाः । मुखस्य मद्दनं तेषां कर्त्तव्यं वैष्णवर्जनैः ॥
इति श्रोजनकजादासेन कृतं दुर्जन मुखमद्दनं प्रकरणं समाप्तं सम्पूर्णम् ।
संवत् १८२१ वर्षे माघमासे शुक्लपक्षे प्रतिपदा मंगलवासरे सवाई जयनगरमध्ये महाराजाधिराज माधवसिंहराज्ये श्रीनृसिंहमिन्दरसंनिधौ लिखितं जोसी नान्हुराम महात्मा नेवटाका वासी श्रीस्वामीजी द्वारकादासजी तच्छिष्य वैष्णव भरतदास लिखायितुं || श्रीराम
For Private & Personal Use Only
www.jainelibrary.org