________________
Rajasthan Oriental Research Institute, Jodhpur
19
OPENING:
762. न्यायमातृका 'न्यायरत्नमाला'वृत्त्युपेता -
॥ श्रीगणेशाय नमः ॥ व्यवहारमातृकषा सकलविवादेषु धर्मवादार्थम् ।
लोकद्वयेऽपि वक्ष्यति सुतमिव शुश्रूषिता माता । तत्र विवादविषयानाह नारद:
ऋणादानं ह्य पनिधिः संभूयोत्थानमेव च । दत्तस्य पुनरादानमशुश्रूषाभ्युपेत्य च ॥ वेतनस्यानपाकर्म तथैवास्वामि विक्रयः । विक्रीयासंप्रदानं च क्रीतानुशय एव च ।। समयस्यानपाकर्म विवादः क्षेत्रजस्तथा । स्त्रीपुसोश्च सम्बन्धो दायभागोऽथ साहसम् ॥ वाक्पारुष्यं तथैवोक्त दण्डपारुष्यमेव च ।
द्यूतं प्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः ।। एवमष्टादशपदा चैव व्यवहारस्य । तत्र धनविषयश्चतुर्दशधा हिंसात्मकश्चतुर्दा तदाह बृहस्पतिः
द्विपदो व्यवहारः स्याद्धनहिंसासमुद्भवः ।
द्विसप्तधात्ममूलं तु हिंसामूलश्चतुर्विधः ।। तदेवं स्थिते भावा (षा)या उत्तरानहत्वादुत्तरस्य वा प्राभासत्वाद् द्वयोरपि वा सद् पत्वे क्रियया भुक्तिलिखितं साक्षिरूपया अनुमानेन वा सर्वेषामभावे दिव्येन वा निरूपकः पक्षमवधार्य जयिने जयपत्र दद्यात् । तस्य लक्षणमाह बृहस्पति:
यवृतं व्यवहारेषु पूर्वपक्षोत्तरादिकम् । क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् ॥ पूर्वोत्तरक्रियायुक्त निर्णयान्तं यदा नृपः ।
प्रदद्याज्जयिने लेख्यं जयपत्रं तदुच्यते ।। तथा कात्यायन:
अथिप्रत्यर्थिवाक्यानि प्रतिज्ञासाक्षिवाक् तथा । निर्णयश्च यथा तस्य यथाचारवृतं स्वयम् ।। एतद्यथाक्षरं लेख्यं यथापूर्व निवेशयेत् ।
सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । प्रतिज्ञापदेन प्रतिपाद्यतया स्थिरीकृतमुच्यते । निर्णयश्च यथा । तस्येति । तस्य साक्षिवचनस्य द्वेधे सति यद्गुणवत्वादिना ग्रहण निर्णयो मतः। शेष सुगमम् । तत्र भाषोत्तरयोलिखनं पुनाये वादिनोरन्यथाप्रत्यवस्थाननिराकरणार्थम्, तथावधारणा. ऽस्य च सम्यक्त्वप्रदर्शनार्थ सर्व लिखनीयम् । तेन निरूपका अपि निरपराधा भवंतीति सर्वमनवद्यम् ।।०॥
CLOSINGH
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org