SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 54 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) 3534. मानसोल्लासप्रबन्धः सटीक: OPENING: CLOSING & COLOPHONE: ॐ श्रीगणेशाय नमः । श्रीवरदमूत्तिर्जयति । ॐ । प्रोद्यच्छाखमहावटद्र मतटे योगासनस्थं प्रभु, प्रत्यक्तत्त्वबुभुत्सुभिः प्रतिदिशं प्रोद्वीक्ष्यमानाननम् । मुद्रां तर्कमयीं दधानममलं कर्पूरगौरं शिवं, हृद्यन्त: कलये स्फुरन्तमनिशं श्रीदक्षिणामूर्तिकम् ।।१।। नत्वाथ शंकराचार्यमुख्यान् सर्वान् गरीयसः । मानसोल्लासवृत्तान्तं वर्णयामि यथामति ।।२।। ___ इह हि भाष्यकार: श्रीमच्छङ्कराचार्यनामा मन्दमतीस्तत्त्वजिज्ञासूननुगृहीतुं दक्षिणामूर्तिस्तोत्रव्याजेन समस्तवेदान्तार्थरहस्यमाविश्चकार दशभिः पद्यबन्धः तच्छिष्येण विश्वरूपाचार्येण सुरेश्वरापरनाम्ना तत्पद्यप्रबन्धार्थतत्त्वं तात्पर्यतो मानसोल्लासनाम्ना वातिकात्मना ग्रन्थसन्दर्भणाविःकृतं तमिमं ग्रन्थं यथाशक्ति विवृणोमि । तत्र शिष्टांचारसंरक्षणाय कृतं मङ्गलाचरण द्योतयति । अयमाद्यः श्लोकः 'मङ्गलमिति' । मङ्गलं दिशतु मे विनायको मङ्गलं दिशतु मे सरस्वती। मङ्गलं दिशतु मे महेश्वरो मङ्गलं दिशतु मे महेश्वरी ।।१।। इदानीमशेषं स्तोत्र तात्पर्यतो व्याख्याग्रन्थप्रचयविघ्नोपशान्तये शिष्टाचारसंरक्षणाय च मङ्गलं स्वेष्टदेवताप्रार्थनारूपमाचरति प्रकाशात्मिकया शक्त्या प्रकाशप्रभवाकरः । प्रकाशयति यो विश्वं प्रकाशोऽसौ प्रकाशताम् ॥२४॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके प्रबन्धे मानसोल्लासे दशमोल्लाससंग्रहः श्रीः श्रीः श्रीः । प्रकाशात्मिकयेति । आदित्यादिप्रकाशानामपि प्रभवाकर इत्यर्थः । स्वयमेव प्रकाशत इत्यर्थः । इदं श्लोकव्याख्योपसंहारश्लोक इति श्रीदक्षिणामूत्तिस्तोत्रार्थप्रतिपादक इति । इति श्रीमानसोल्लासप्रबन्धोऽयं यथामति । व्याख्यातो रामतीर्थेन गुरुदेवप्रसादतः ।। अनेन भगवान् श्री[मद्]दक्षिणामूत्तिरीश्वरः । गुर्वात्मा प्रीयता नित्यं तत्त्वज्ञानप्रदः सताम् ।। इति श्रीदक्षिणामूर्तिस्तोत्रव्याख्या प्रबन्धमानसोल्लासवृत्तान्तविलासः सम्पूर्णः । संवत् १९१६ आश्विन कृष्ण ७ चन्द्रवासरे । Post-Colophonic Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy