________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
39
OPENING:
CLOSING:
घनस्वेदस्तोमस्तिमिततनुरुत्कीर्तनमुखी,
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ।।८।। अधीते गौरांगस्मरणपदवीमङ्गलतरं,
कृती यो विस्रम्भः स्फुरदमलधीरष्टकमिदम् । परानन्दे संघस्तदमलपदाम्भोजयुगले,
परिस्पा (स्फा) रा तस्य स्फुरतु नितरां प्रेमलहरी ॥९॥ [द्वितीयं स्तोत्रम्
श्रीकृष्णचैतन्यचन्द्राय नमः । कलोयं विद्वांसः स्फुटमभियजन्ते द्युतिभरा
दकृष्णाङ्गं कृष्णं मखविधिभिरुत्कीर्तनमयः । उपास्यं च प्राहुर्यमखिलचतुर्थाश्रमजुषां,
___स देवश्चैतन्याकृतिरतितरां न: कृपयतु ।।१।। शचीसूनो: कीत्तिस्तबकनवसौरभ्यनिबिडं,
पुमान् यः प्रीतात्मा पठति किल पद्याष्टकमिदम् । स लक्ष्मीवानेतं निजपदसरोजे प्रणयितां,
ददानः कल्याणीमनुपदमबाधां सुखयतु ।।६।। [तृतीयं स्तोत्रम्]
श्रीचैतन्यचन्द्राय नमः । उपासितपदाम्बुजस्त्वमनुरक्तरुद्रादिभिः,
प्रपद्य पुरुषोत्तमं पदमदभ्रमुद्भाजितः । समस्तजनमण्डलीस्फुरदभीष्टकल्पद्र मः,
___ शचीसूत मयि प्रभो कुरु मुक (कु)न्द मंदे कृपाम् ।।१।। न वर्णयितुमीशते गुरुतरावतारायिता,
भवन्तमुरुवुद्धयो न खलु सार्वभौमादयः । परो भवतु तत्र कः पटुरतो नमस्ते परं,
शचीसुत मयि प्रभो कुरु मुकुन्द मन्देक्षणम् ।।२।। अहं कनककेतकीकुसुमगौरदुष्ट: क्षिती,
न दोषलवदर्शिता विविधदोषपूर्णेपि ते । अतः प्रवणया धिया कृपणवत्सल त्वां भजे,
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥८॥ इदं धरणिमण्डलोत्सवभवत्पदाङ्कषु ये,
निविष्टमनसो नराः परिपठन्ति पद्याष्टकम् ।
OPENING.
CLOSING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org