________________
26
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix)
कामपि नीविनिबन्धविमोकससम्भ्रमलज्जितनयनाम् । रमते सम्प्रति सुमुखी (खि) बलादपि करतलधृतनिजवसनाम् ॥५॥ प्रियपरिरम्भविपुलपुलकावलिद्विगुणितसुभगशरीरा। उद्गायति सखि कापि समं हरिणा रतिरणधीरा ॥६॥ विभ्रमसम्भ्रमगलदञ्चलमल याञ्चितमङ्गमुदारम् । पश्यति सस्मितमतिविस्मितमनसा सुदृशा सविकारम् ।।७॥ चलि (ल)ति कयापि समं सकचग्रहमलसतरं सविलासम् । राधे तव पूरयतु मनोरथमुदितमिदं हरिरासम् ।।८।।
इति हरिरासाष्टपदी द्वितीया समाप्ता ।२। 3341. आनन्दचन्द्रिकास्तोत्रम्
अथ श्रीराधायाः राधा दामोदरप्रेष्ठा राधिका माधवप्रिया। समस्तवल्लवीवृन्दधम्मिल्लोत्तंसमल्लिका ॥१॥ कृष्णप्रियावलीमुख्या गान्धर्वा ललिता सखी। विशाखासख्यसुखिनी हरिहृद्भङ्गमञ्जरी ॥२॥ इमां वृन्दावनेश्वर्या दशनाममनोरमाम् । प्रानन्दचन्द्रिका नाम यो रहस्यां स्तुति पठेत् ॥३॥ स क्लेशरहितो भूत्वा भूरिसौभाग्यभूषितः । त्वरितं करुणापात्रं राधामाधवयोर्भवेत् ॥४॥
इति आनन्दचन्द्रिकास्तोत्रम् ।
3362. उत्कलिकावल्लरीस्तोत्रम् अथ श्रीउत्कलिकावल्लरी
प्रपद्य वृन्दावनमध्यमेक: क्रोशन्नसावुत्कलिकाकुलात्मा ।
उद्घाटयामि ज्वलतः कठोरां वास्यस्य मुद्रां हृदि मुद्रितस्य ॥१॥ अये वृन्दारण्य त्वरितमिह ते सेवनपराः,
परामापुः के वा न किल परमानन्दपदवीम् । प्रतो नीचर्याचे स्वयमधिपयोरीक्षणविधे
वरेण्या मे चेतस्युपदिश दिशं हा कुरु कृपाम् ॥२॥ उद्गीर्णाऽभूदुत्कलिकावल्लरिरग्रे,
वृन्दाटव्यां नित्यविलासक्तयोर्वाम् । वाङ्मात्रेण व्याहरतोप्युल्ललमे
तामाकयेशौ कामितसिद्धि कुरुतं मे ।।७१॥
OPENING:
CLOSING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org