________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
23
इदं वलिततुष्टयः परिपठन्ति पद्याष्टकं,
द्वयोर्गुणविकासि ये अजनवीनयूनोर्जनाः । मुहुर्नवनवोदयां प्रणयमाधुरीमेतयो
रवाप्य निवसन्ति ते पदसरोजयुग्मान्ति[के] ||६|| इति श्रीव्रजनवयुवद्वन्द्वाष्टकम् । 2846. वजनवयुवराजाष्टकम्
नमः श्रीगोकुलयुवराजाय। मुदिरमदमुदारं मई यन्नङ्गकान्त्या,
वसनरुचिनिरस्ताम्भोजकिजल्कशोभः । तरुणिमतरणीक्षा विक्लवबाल्यचन्द्रो,
व्रजनवयुवराजः कांक्षितं मे कृषीष्टः ॥१॥ पितुरनिशमगण्यप्राणनिर्मन्थनीयः,
कलिततनुरिवाद्धामातृवात्सल्यपुजः । अनुगुणगुरुगोष्ठी दृष्टिपीयूषवत्ति,
व्रजजनयुवराज: कांक्षितं मे कृषीष्ट: ।।२।। अखिलजगति जाग्रन्मुग्धवैदग्ध्यचर्या,
प्रथमगुरुरुदनस्थामविश्रामसौधः । अनुपमगुणराजी रञ्जिताशेषबन्धु
व्रजजनयुवराज: कांक्षितं मे कृषीष्टः ॥३॥ अपि मदनपरार्धेदुष्करं विक्रियोमि,
युवतिषु निदधानो भ्र धनुधूननेन । प्रियसहचरवर्गप्रारणमीनाम्बुराशि
जजनयुवराजः कांक्षितं मे कृषीष्टः ॥४॥ नयनशृणिविनोदक्षोभितानङ्गनाङ्गो
न्मथितगहनराधाचित्तकासारगर्भः । प्रणयभरमरन्दास्वादली
ब्रजजनयुवराजः कांक्षितं मे कृषीष्टः ।।५।। अनुपदमुदयन्त्या राधिकासङ्गसिद्धया,
__स्थगितपृथुरथाङ्गद्वन्द्वरागानुबन्धः । मधुरिममधुधाराधोरणीनामुदन्वान्,
व्रजजनयुवराजः कांक्षितं मे कृषीष्टः ॥६॥ अलघुकुटिलराधादृष्टिवारीनिरुद्ध
त्रिजगदपरतन्त्रोद्दामचेतो मृगेन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org