________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
OPENING :
CLOSING :
Jain Education International
इदं ते मुखाम्भोजमत्यन्तनीलै - वृतं कुण्डलैः स्निग्धवक्त्रश्च गोप्यम् । मुहुरचुम्बितं बिम्बरक्ताधरं मे, मनस्याविरास्तामलं त्वक्षलाभैः ||५| नमो देव दामोदरानन्तविष्णो, प्रसीद प्रभो दुःखजालाब्धिमग्नम् । कृपादृष्टिदृष्ट्यातिनीतम्बतानु - गृहाणेशमामद्य मेध्यक्षि दृश्य || ६ || कुबेरात्मजो बद्धमूर्तीव यवत्त्वया मोचितौ भक्तिभाजौ कृतौ च । तथा प्रेमभक्ति स्वकामे प्रयच्छ, न मोक्षाग्रहो मेऽस्ति दामोदरेह ||७|| नमस्ते तदाम्ने स्फुरद् दीप्तिवाम्ने, त्वदीयोदरायाथ विश्वप्रदाने । नमो राधिका त्वदीयप्रियायै, नमोऽनन्तलीलापदेवाय तुभ्यम् ||८॥ इति श्रीपद्म सत्यव्रतोक्तं दामोदराष्टकं समाप्तम् ।
3200 मधुरकुञ्जविहार्यष्टकम्
श्री राधाकृष्णाभ्यां नमः ।
इन्द्रनीलमणिमञ्जुल वर्ग:. फूल ( ल्ल ) नीपकुसुमाञ्चितकर्णः । कृष्णलाभिरकिशोरसि हारी, सुन्दर जयति कुञ्जविहारी ॥ १ ॥ राधिकावदनचन्द्रचकोर: सर्वबल्लववधूधृतिचौरः । चर्चरीचतुरतांचितचारी, चारुतो जयति कुञ्जविहारी ॥२॥ अष्टकं मधुरकुञ्जविहारी, क्रीडया पठति यः किल हारी । प्रयाति विलसत् परभागं, तस्य पादकमलार्चनरागम् ॥६॥ इति श्रीमधुरकुञ्जविहार्यष्टकं संपूर्ण । शुभमस्तु । श्रीराधाकृष्णाभ्यां नमः ।
3214. यमुनाष्टक स्तोत्रम्
कमलयोनि कमण्डलुनिर्गता, सनकमुख्यमहामुनिसम्मता । जगति सातिमितेपि नगत्वरी, जयति जह नुसुता जगदीश्वरी ॥१॥ सगरनन्दन सद्गतिकारिणी, हरिपदाम्बुज रेणुविहारिणी । कलिनृपोद्भट सैन्य भयंकरी, जयति जहनुसुत। जगदीश्वरी || २ ||
विलोल विहङ्गममण्डिता, प्रबलपापपराभवपण्डिता । मदनशत्र शिरोरुहमञ्जरी, जयति जह नुसुता जगदीश्वरी ||३|| तुहिनशैलशिलातलसम्भवा, श्रुतिपुराण... निर्मलसंस्तुता । दुरितदुःखलतादलधूमरी, जयति जह नुसुता जगदीश्वरी ||४|| निजतटाश्रितवाञ्छितदायिनी, जगद्दोषविघातविधायिनी । अनुगतामर किन्नरकिन्नरी, जयति जह नुसुता जगदीश्वरी ||५|| सरलसारविशाल रसालिनी, तरलतालतमालमृणालिनी । सुकृतवातक- पातकजित्वरी, जयति जनुसुता जगदीश्वरी ॥ ६ ॥
For Private & Personal Use Only
19
www.jainelibrary.org