________________
___10
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix)
CLOSING:
तस्याद्यं ग्रन्थनालेखं क्रान्तव्युत्क्रान्तखण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥२॥ अत्र पूर्व सन्दर्भचतुष्टयेन सम्बन्धो व्याख्यातः । तत्र पूर्णसनातनपरमानन्दलक्षणपरतत्त्वरूपं सम्बन्धि च । ब्रह्म परमात्मा भगवानिति त्रिधाविर्भावतया शब्दितमिति निरूपितम् । तत्र च भगवत्त्वेनैवाविर्भावस्य परमोत्कर्षः प्रतिपादितः । प्रसङ्गेन विष्ण. वाद्याश्चतुः सनाद्याश्च तदवतारा दर्शिताः । गुरुः शास्त्र श्रद्धा रुचिरनुगतिः सिद्धिरिति मे
यदेतत्तत्सर्व चरणकमलं राजति वयोः । कृपापूरस्यन्दस्नपितनयनाम्भोजयुगलौ,
___सदा राधाकृष्णावगतिगतिदौ तौ मम गतिः ॥१०॥ इति कलियुगपावनस्वभजनविभजनप्रयोजनावतार-श्रीश्रीभगवत्कृष्णचैतन्यदेव चरणानुचर-विश्ववैष्णवराजसभासभाजनाभाजन-श्रीरूपसनातनानुशासन - भारतीगर्भेश्रीभागवतसन्दर्भ-भक्तिसन्दर्भो नाम पञ्चमः सन्दर्भः ।। श्रीराधावल्लभो जयति । श्रीचन्द्रोजयतितराम ।
संवत् १८२० मामशुक्ल १२ मंगलवासरे लिखितमिदं श्रीभक्तिप्रवद्धनाथं मायावादनिरासार्थ जून्या-ग्रामबासिना व्यास-हरिलालेन स्वपठनार्थ जयनगरे श्रीविजेगोपालजीकानामालयस्थाने । लेखकपाठकयोः शुभं भूयात् । अतः परं प्रीतिसन्दर्भो भविष्यति ।
COLOPHON:
Post-Colophonic:
OPENING :
2840, भागवतसन्दर्भे भगवत्सन्दर्भः
श्रीकृष्णो जयति । सौ सन्तोषयता संतो श्रीलख्वसनातनौ ।
बाक्षिणात्योन भट्टन पुनरेतद् विविच्यते ॥ तस्याद्यं ग्रन्थनालेखं क्रान्तयुत्क्रान्तखण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ।। प्रथैवमद्वयज्ञानलक्षणं तत्तत्वं सामान्यतो लक्षयित्वा पुनरुपासकयोग्यतावैशिष्ट्य न प्रकटितनिजसत्ताविशेष विशेषतो निरूपयति बदन्तीत्यस्यैव उत्तरार्द्धन । ब्रह्मति परमात्मेति भगवानिति शब्द्यते ।
इति कलियुगपावनस्वभजनविभजनप्रयोजनावतारश्रीश्रीभगवत्कृष्णचैतन्यदेव. घरणानुचरविश्ववैष्णवराजसभासभाजनभाजन - श्रीलरूपसनातनानुशासनभारतीगर्भेश्रीभागवतसन्दर्भ भगवत्सन्दर्भो नाम द्वितीयः सन्दर्भः ।२।
अनेन श्रीकृष्णः प्रीणातु । श्रीकृष्णाय नमः । श्रीकृष्णचैतन्यचरणा (२) विन्देभ्यो नमः । २७००
COLOPHON :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org