SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Rjaasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 97 OPENING (f.in) ३. सुसंसर्गोपरि प्रभाकरकथा सुसंसर्गस्य माहात्म्यमद्वतं कथ्यतेऽधुना। प्रायो जगति येन स्यादपि दैविकमन्यथा ॥ ३२३ ।। प्रास्तामोपाधिको दोषः सहजोपि सुसंगतः । प्रपयाति यथा कर्म जीवस्य ज्ञानसङ्गमात् ।। ३२४ ॥ पश्य सत्सङ्गमाहात्म्यं स्पर्शपाषाणयोगतः । लोहं स्वर्णीभवेत् स्वर्णयोगात् काचो मणीयते ॥ ३२५ ॥ विकाराय भवत्येव कुलजोपि कुसङ्गतः । जलजातोपि दाहाय शंखो वह निनिषेवनात् ।। ३२६ ॥ प्रास्तां सुचेत पां सङ्गात् सदसत् स्यात्तरोरपि । अशोकः शोकनाशाय कलये तु कलिद्र मः ।। ३२७ ।। निःस्वोपि सङ्गतः साधुर्वरमुद्धोपि नाधमः । अश्वः कृशोपि शोभायै पुष्टोपि न पुनः खरः ॥ ३२८ ।। एकमातृपितृत्वेपि श्रूयते शुकयोद्वयोः । भिल्लानां च मुनीनां च सङ्गाद्दोषगुणोदयः ।। ३२६ ।। सुसङ्गस्योपदेशोऽपि लभ्यते न यथा तथा । इत्यर्थे लोकविख्याता प्रभाकरकथोच्यते ।। ३३० ।। Xx x x x x x x x x x विपन्न राज्ञि कालेऽथ राजाभूद् गुणसुन्दरः । प्रभाकरः पुनर्मन्त्री सर्वकार्येषु यत्कृती ।। ३९८ ।। अन्यदा शास्वतस्तस्य प्रजा नीत्या प्रजापतेः। ढोकनीयकृतौ हेडा चित्तर्जात्यतुरंगमो ॥ ३६६ ॥ सल्लक्षणधरी किन्तु वैपरीलोन शिक्षितो । तत्स्वरूपमजानानस्तावपर्याणयन्नृपः ॥ ४०० ॥ एकस्मिन् स्वयमारूढो द्वितीयेऽमात्यमादिशत् । जग्मतुः सपरीवारों शनकस्तौ पुरावहिः ॥ ४०१ ॥ वाहयित्वा चिरं बाहो वाह्याली वेगमीक्षितुम् । कशाघातं नृपामात्यो कर्कशं चक्रतुस्तयोः ।। ४०२ ।। सहसोत्प्लुत्य तौ तस्मादलिदष्टो कपी इव । प्रवृत्ती वेगतो गन्तुं प्रमातुमिव मेदिनीम् ।। ४०३ ।। यातयातद् तं भृत्याः शीघ्र धावत सादिनः । दिव्येनेष केनापि हयेन ह्रियते नृपः ।। ४०५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy