________________
98
CLOSING : (f. 16)
OPENING : (f. 16)
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix)
Jain Education International
पूत्कुर्वतो जनस्यैवं धावतामपि सादिनाम् ॥ ४०५ ॥ पापान्निमिरिवादृष्टः सामात्योऽभून्नृपः क्षणात् ।
यथा यथा नृपामात्यो वल्गामाकर्षतो हठात् । तथा तथा चटद्धारं गच्छतस्तौ तुरङ्गमौ ॥ ४०६ ॥ सम्प्राप्तयोर्महाटव्या मामलक्यास्तरोरधः । गच्छतेव करेणात्तं मंत्रिरणाऽऽमलकत्रयम् ॥ ४०७ ॥ प्रतिदूरं गतो यावद् विलक्ष्यीभूय तो श्रमात् । वल्गां मुमुचतुस्तावदश्वो तत्रव संस्थितो ॥ ४०८ ॥ उत्तीण च नृपामात्यो प्राणैर्मुक्तो च वाजिनौ । किमेताभ्यां निजस्वामिद्रोहकाभ्यामितीव तौ ॥ ४०६ ॥ तयोः खेदं क्षणं धृत्वा परदु:खासुखी नृपः । क्षुत्तृष्णापीडितो वाढं मनस्येवं व्यभावयत् ।। ४१० ।। पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैरुपखण्डेषु रत्नसंज्ञा प्रकीर्तिता ॥ ४११ ॥
ध्रुवं सत्यमिदं वाक्यं यत्पर्यारणे तनौ च मे सत्स्वप्येतेषु रत्नेषु तृष्णा शाम्यति नाधुना ॥ ४१२ ॥ उवाच च महामात्यं तृषा यान्ति ममाऽसवः । मन्त्र्युवाचाssकुलो देव मा भू रक्षामि ते तृषम् ।। ४१४ ॥
एक मामलकं मंत्री ददौ त्रिभ्यो महीभुजे । निवृत्तात्मा तदाहारात् तस्थौ स्वस्थः क्षणं नृपः ॥ ४१४ ।।
× × × × × × × × × × × तो भूपसचिव राज्यं मुक्त्वा सत्संगतत्परो । सद्गुरोर्धर्ममासाद्य हितोद्युक्तो बभूवतुः ।। ४५५ ।। सुसङ्गस्यैव माहात्म्यं व्यवहारेण कीर्त्तितम् । सर्वार्थसिद्धिकृत्सत्वविषयं वर्ण्यतेऽधुना ।। ४५६ ।।
४. सत्वोपरि हरिश्चन्द्रकथा सत्वमेव नृणां तत्त्वं सत्वं सिद्धचं भवद्वये । विना सत्वं सजीवोsपि निर्जीव इति कथ्यते ।। ४५७ ।।
विशीर्णोऽपि यथा वृक्षः सति मूले प्ररोहति । प्रक्षीणोsपि तथा भूयो नरः सत्वाद् विवर्द्धते ।। ४५८ ।।
यद्दूरं यदुराराधं दुर्घटं दुर्लभं च यत् । सर्वं सिद्धयति तत्सत्वात् तद्विना तु सदप्यसत् ॥ ४५६ ॥
For Private & Personal Use Only
www.jainelibrary.org