SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ 82 OPENING: Catalogue of Sanskrit & Prakrit Manuscripts Pt, II - A ( Appendix ) Jain Education International 2455. शत्रुञ्जय माहात्म्यम् ॐ नमो वीतरागाय । ॐ नमो विश्वनाथाय विश्वस्थितिविधायिने । अर्हतेऽव्यक्तरूपाय युगादीशाय योगिने ॥ १॥ श्रच्चक्रिः श्रियो स्वामी चामीकरसमप्रभः । स्तुत्यः सत्कृत्यलाभाय श्रीशान्तिः शुभतातिकृत् ॥ २ ॥ हेलान्दोलित दैत्यारिर्जरासन्धप्रतापहृत् । स्मरणीयं स्मरं कुर्वन् श्रीमन्नमि पुनातु वः ।। ३॥ यस्य दृष्टिसुधावृष्टिदानादहिरहीश्वरः । जातस्तापत्रयान्मुक्तः स श्रीपार्श्वो मुदेऽस्तुवम् ॥। ४ ॥ सुराद्रि सुरनाथस्य संशयापाननाय यः । प्रकम्पयत् त्रिधा वीरः श्रीवीरः श्रेयसेऽस्तु सः ॥ ५ ॥ श्रेयः श्रियः पुण्डरीकं पुण्डरीकं शिश्रियः । पुण्डरीकशिरोरत्नं पुण्डरीकं नमामि तम् ॥ ६॥ जिनानादीश्वरमुखान् पुण्डरीकभुखान् मुनीन् । ध्यात्वा शासनदेवीं च कुर्वे सच्चरितोद्यमम् ॥ ७ ॥ श्रीयुगादिजिनादेशात् पुण्डरीको गणाधिपः । सपादलक्षप्रमितं नानाश्चर्यकरम्बितम् ॥ ८ ॥ श्रीशत्रुञ्जयमाहात्म्यं सर्वतत्त्वसमन्वितम् । चकार पूर्वं विश्वैकहिताय महितं सुरैः ॥ ६ ॥ युग्मम् वर्द्धमाननियोगेन सुधर्मा गणभृत्ततः । ह्रस्वायुष्कान् नरान् जानन् तस्मात्संक्षिप्य तद्वयधात् ॥ १० ॥ चतुर्विंशतिसाहस्रात्तस्मादालोड्य सारतः । स्याद्वादवादवशतः कुर्वन् बौद्धान् गलन्मदान् ॥११॥ सर्वाङ्गयोगनिपुण सोगाभोगोऽपि निस्पृहः । नानाब्धिप्रबुद्धात्मा राजा गच्छेकमण्डनम् ॥ १२ ॥ सच्चारित्रपवित्राङ्गो वैराग्यरससागरः । श्रीमान् धनेश्वरः सूरिः सर्वविद्याविशारदः ॥ १३ ॥ शत्रुञ्जयोद्धारकर्त्तु रष्टादशनृपेशितुः । नानालब्धिप्रबुद्धात्मा राजा गच्छेकमण्डनम् ॥ १४ ॥ ॥ तत्प्रतिश्रान्तितुल्यं तन्माहात्म्यं सुखबोधकृत् । वक्ति शत्रुञ्जयस्याद्रेर्भक्त्या शृणुत हे जनाः ।। १५ ।। पञ्चभिः कुलकम् For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy