SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 79 भोः क्रियामताङ्गीकरणबुद्ध तवेदृशं चातुर्य मस्ति, ज्ञानेन समं किमपि वस्तु वर्ण्यते सद्भिः यतो ज्ञानं कुमतान्धकारस्फेटकं जगल्लोचनं विश्वोद्योतकारकं सूर्यातिशायि येन प्राप्तेनाऽवश्यमपार्द्ध पुद्गलान्तरमनवधिसुखोत्पादकमनुपमं परमैश्वर्यगुणोपेतेन सकलसत्वसुखकारकेण परमपुरुषसुरासुरनृपादिवन्दितचरणयुगलेन प्रोक्त महानन्दपदं लभ्यते जे (?)न ज्ञानेन तेन समा क्रिया कदापि न स्यात् ।१०। __ भो लब्धवर्ण ! त्वया केन हेतुना क्रियापक्ष निर्धाटय केवलं ज्ञानस्यैव पक्ष एवाऽङ्गीक्रियते । किं त्वया विशिष्टगुणोपेतायाः क्रियायाः सामयं नाभिज्ञायते ? यस्याः प्रभावेनाऽलब्धसम्यक्त्वेऽपि जीवः स्पर्शनरसनघ्राणचक्षुःश्रोत्रार्हान् मनोवाक्कायाऽऽल्हादकान् अविहति (हित) पुण्यप्रकरमनुजदुर्लभान् विहितसदाचारमानुष्यसुलभान् भोगान् भूक्त ( ? भुङ्क्त) । एवंविधगुणोपेता क्रियाऽस्ति । तस्याऽग्रे ज्ञानस्य किमाधिक्यम् ? ॥११॥ भोः कवे ! शृणु मदीयं वचः । परमानन्दपददायिकदक्षनरप्रकरोचितं सद्यः समी. हितसातकारकं दिव्यप्रभावयुक्त ज्ञानमस्ति । तस्य गुणान् किं त्वं न जानासि ? झटिति वाञ्छितार्थसिद्धिप्रदायकस्य विशिष्टज्ञानस्याऽग्रे किं वराकी क्रिया ? सादिसपर्यवसितसुखदायिनी। यथा प्रकटिते भास्करे किं बलं खजूरा खद्योतवराकस्य ततो(तः) समालोचनीयं । नेह किमपि ज्ञानेन तुल्यं परोपकारिवस्तु विद्यते ।१२। भो विचक्षण ! अथ शृणु, क्रियाया विशिष्टसामर्थ्य , अस्मिन्ननादिसंसारे स्थितानामलब्धसम्यक्रत्नां(त्नानाम्), प्रत एव सदैवाऽविशुद्ध चेतसामभव्यानां क्रियासामर्थ्यन भवन पतिव्यन्तरज्योतिष्कसूरेषूत्पत्तिः स्यात् । कदाचित् सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्राराऽऽनतप्राणताऽऽरणाच्युतकल्पेषु विशिष्टगीर्वाणसुखावाप्ति: स्यात् । कदाचित् तपोप्यूद्ध्वभद्रसुभद्रजातसोमनसप्रियदर्शनसुदर्शनाऽमोघसप्रतिबुद्धयशोधरेष्वहमिन्द्रत्वं परमसौख्यं भवति । ईदृक् क्रियासामर्थ्यमस्त्यवगतम् ॥१३॥ भो वाचंयमाः ! त्वया क्रियाधिकसामर्थ्यकथनेन ज्ञानगुणोल्लङ्घनं क्रियते तदयुक्त दृश्यते । यतोऽस्मिन् मनुष्यलोके क्रियाकारका बहवो विद्यन्ते साक्यादयस्तेषां मध्ये केचित् पञ्चाग्निसाधकाः सन्ति, केचित् पत्रपुष्पफलाहारेण सदेव तिष्ठन्ति, तथा केचित् शैबाल भक्षिणः श्रूयन्ते, केचित् जलाश्रये पतितास्तिष्ठन्ति, केचिदूर्द्धपादाऽधोवक्वास्तिष्ठन्ति, केचिद्दिगम्बरा नग्नास्तिष्ठन्ति । एवंविधेनाऽपि कष्टेन तेषां तीर्थङ्करादिलब्धिर्न भवति । अथ श्रेणिकवासुदेवानां श्रूयन्ते, एकेनाऽपि ज्ञानेन तीर्थङ्करत्वं भविष्यति, तर्हि ज्ञानस्य माहाल्यं प्रभूतं ज्ञायते न क्रियायाः । ततो ज्ञानपक्ष एवाङ्गीकार्यम् ।१४। भो ज्ञानपक्षग्राहिन् ! निःकेवलेनैकेन ज्ञानेन पूर्ण स्वर्गाऽपवर्गसुखसाधनं न भवेत्, द्वाभ्यामेकत्र वत्तंमानाभ्यां वाञ्छितार्थसिद्धिः संजायते । यथा ऋषभादिजिनेश्वराणां ऋषभसेनप्रभृतिवाचंयमानां भरतादिचक्रवर्तीनां गौतमादिगणधराणाँ तथाऽन्येषामपि साधूनां प्राक्तनकाले निरन्तरं सुखावाप्तिर्बभूव । इदानीमपि वर्तमाने महाविदेहादी वाञ्छितार्थसिद्धिर्भवति, भविष्यति कालेऽपि ज्ञानक्रियाभ्यामनन्तानां क्षेत्रज्ञानां मनुजसुरेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy