SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ 78 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II - A ( Appendic) मिलतान्यान्यो तत् हुङ हुङ कुतो ज्ञानरहितो दृशं नाचाराङ्ग गवसिगतितो जीवनमृतम् ॥ दुवै वु. ६ सं. १६२६ मै वण्यौ । 2414. ज्ञानक्रियासंवादः ॐ नमो जिनाय । श्रीमद्भिः कानि कानि तंत्राणि अधीतानि सन्ति यतो भवंतः कवयः श्रूयन्ते ? ? श्रीमद्गुरुप्रसादादस्माकं सारस्वतौ क्वचित् क्वचिच्छास्त्रे पर (? रि) चयो वर्तते । श्रस्मत्पठित प्रश्न प्रयोजनं भवतां किम् |२| युष्मद्वचनचातुरीपरीक्षायै पृच्छयतेऽस्माभिः | ३ | श्रथावगतं मानसं भवतां भवन्तोऽस्मदादिभिः सह भाषणोक्तिसमर्थाः सन्ति |४| एवं तदर्थमेव समागताः स्मो वयं पार्श्वे | ५ | प्रकटितप्रभामण्डलसकललोकालोकप्रकाशकच । रुकैवल्यसमालङ्कृत [ग]त्राऽऽप्तवक्त्र प्रसूतभारतीरतानां भव्य सत्व सामाजिकानामीदृग् मासं वर्तते, यज्जिनप्रवचनाश्चाधिरूढा वाचंयमाः शुद्धराद्धान्तसनाहादिसमायुक्ताः संतो वचनरचनाप्रपञ्चेन परस्परं तर्कवादपराः संबोभूयुः । तर्हि वयं तत्तर्कवादं श्रोतुकामाः स्मः । ततस्तेषां प्रमोदाय वयं क्षणनाडिकादिमात्रं मिथो भाषणं कुर्मः | ६ | Jain Education International भोऽधिगत सिद्धान्तचारुचातुर्यसमालङ कृतगात्रविशदमतयो वाचंयमाः श्रीमतां तर्कवादक ररणाशयोऽस्माभिः सह वर्त्तते । तदवसितः, इह सुरासुरन रतिर्यगादिसं की अनादिपर्यवसित संसारदुर्गे प्रवर्तमानानां ज्ञातजीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षनवतत्त्वानां सदैव सर्वसौख्य सम्पदुपेतसिद्धिवघूरक्तचेतसां विवेकिजनानां ज्ञानक्रियाभ्यासकरणं सततं परमानन्दकारणमस्ति । ततः समालोच्य भवद्भिर्ज्ञानक्रिययोर्द्वयोर्मध्ये यत्समी • चीनं तद्ग्राह्यम् । गृहीतपक्ष: सह तर्कवादः प्रवर्तते । ततस्तूर्णं पक्षग्रहणं कार्यम् ॥७॥ भो साधवोऽथ श्रूयताम् । यद् भवद्भिरुक्तं ज्ञानक्रिययोर्मध्ये यत् समीचीनं तद् ग्राह्यं, तदवगतम् । श्रीमतां वचो श्रस्माभिर्जगति विद्वज्जन सर्वदाऽभिमतं सकललोकव्यवस्थिताशेषभावाविष्करण दक्ष प्रकटितनभसि तरुण रविकिरण मण्डलनिभं संसारजलधिप्रपतज्जन्तूद्धरणक्षमं विदितसारेत र दक्षनरप्रकरालम्बनभूतं भूरिगुणोपेतं ज्ञानं अस्मदादीनामङ्गीकर्त्ती योग्यं तदेवाङ्गीकृतम् । ८ । अथाऽस्मद्वचांसि दत्तावधानाः सन्तः शृणुत यूयम् । यद्भवद्भिर्ज्ञानमङ्गीकृतं तदवसितमस्माभिः परं स्वकीयकर्मक्षयोपशमप्रकटितया निपुणधिया विमृश्य वक्तव्यम् । अनाद्यपर्यवसिते सदेव विद्यमानेऽस्मिन् जगति कृतनिवासानां जन्तूनां कदाचन सम्भवं ज्ञानं न सर्वदा सहचारि तेनाङ्गीकृतेन युष्मदादीनां कथमर्थसिद्धिर्भविष्यति क्रियाऽस्मिन् त्रिविष्टपे जीवानामनादिसंसिद्धा दृश्यते । ततः क्रियैव श्रेष्ठा, कथं ज्ञानं श्रेष्ठम् ? || For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy