________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
43
CLOSING:
Post-Colophonic: संवत् १८५० आश्विन कृष्ण चतुर्थी ४ सोमवासरे। ग्रन्थसंख्या ५००० । शुभमस्तु ।
1553. तत्त्वानुसन्धानम् OPENING:
श्रीपरमात्मने नमः । सच्चिदानन्दो जयतु । ब्रह्माहं यत्प्रसादेन मयि विश्वं प्रकल्पितम् ।
श्रीमत्स्वयंप्रकाशाख्यं प्रणोमि जगतां गुरुम् ॥ १॥ देहो नाऽहं श्रोत्रवागादिकानि नाहं बुद्धि हमध्यासमूलम् । नाहं सत्यानन्दरूपश्चिदात्मा माया साक्षी कृष्ण एवाहमस्मि ॥ २ ॥
श्रीमत्स्वयंप्रकाशाऽस्मद्गुरुणा करुणावशात् ।
उपदिष्टपरात्मैक्यतत्त्वमावेदितं मया ॥ १॥ ब्रह्म शविष्ण्वादिसमस्तदेवाः स्वस्वाधिकारेषु विभीतचित्ताः। आज्ञावशाद् यस्य वसंति सर्वे तं कृष्णमाद्यं शरणं प्रपद्ये ॥२॥ या भारती शिवविरञ्चिविष्णुदेवादिभिनित्यमुपास्यामाना।
सदाक्षमालाविलसत्कराढयां वाग्वादिनीं तां प्रणमामि देवीम् ॥ ३ ॥ आकाशपुष्पमिव विश्वमहं निरीक्षे मग्नोऽस्मि नित्यसुखबोधरसामृताब्धी । प्रत्यञ्चमद्वयमनन्तसुखैकबोधं साक्षात् करोमि पदभावनया गुरूणाम् ॥ ४ ॥ यत्पादयुग्मकमलाश्रयणं विनाहं,
___ संसारसिन्धुपतितः सुखदु:खभाग्भ्याम् । यत्पादयुग्मकमलाश्रयणात् सुतीर्ण
स्तद्देशिकांघ्रिकमलं प्रणतोऽस्मि नित्यम् ।। ५॥ परमसुखपयोधो मग्नचित्तो महेशं,
हरिविधिसुरमुख्यान् देशिकं देशमात्रम् । जगदपि न विजाने पूर्णसत्यात्मसंवित्,
___ सुखतनुरु(र)हमात्मा सर्वसंसारशून्यः ।। ६ ॥ यदुकुलवररत्नं कृष्णमन्यांश्च देवान्,
न मनुजपशुमृगादीन् ब्राह्मणादीन्न जाने । परमसुखसमुद्र मज्जनात्तन्मयो[]
लितनिखिल[वि] भेदः सत्यबोधकरूपः ।। ७ ।। COLOPHON :
इति श्रीपरमहंसपरिव्राजकाचार्य-श्रीमत्स्वयंप्रकाशानन्दसरस्वतीपूज्यपादशिष्य
___ भगवान् महादेवसरस्वतीमुनिविरचितं तत्त्वानुसन्धानं समाप्तम् । Post-Colophonic: श्रीसंवत् १७६५ वर्षे मिती कात्तिकमासे गुरुवारः लिखितं मयारामेण स्वयं
पठनार्थम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org